SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २३२ नीतिवाक्यामृते टीका-गतार्थमेतत् । एतत्संविधानकं बृहत्कथायां । अथान्यासामपि दुष्टस्त्रीणां संविधानानि लिख्यन्ते । विषालक्तकदिग्धेनाधरेण वसन्तमतिः शूरसेनेषु सुरतविलासं, विषोपलिप्तेन मणिना वृकोदरी दशाणेषु मदनार्णवं, निशितनेमिना मुकुरेण मदिराक्षी मगधेषु मन्मथविनोदं, कवरीनिगूढेनासिपत्रेण चन्द्ररसा पाण्डयेषु पुण्डरीकमिति ॥ ३६॥ टीका-एतानि पंच संविधानकानि गतार्थानि बृहत्कथायां ज्ञेयानि । अथ स्त्रीणां माहात्म्यमाहअमृतरसवाप्य इव श्रीजंसुखोपकरणं स्त्रियः ॥ ३७॥ टीका-एता याः स्त्रियः । ताः किंविशिष्टाः ? श्रीजसुखोपकरणं श्रीलक्ष्मीस्तस्या जातं श्रीजं, श्रीजं च तत्सुखोपकरणं च श्रीसंभवसुखद्रव्यं च । काः ? स्त्रियः । का इव अमृतरसवाप्य इव आनन्दकारिण्य इत्यर्थः । तथा च शुक्रः लक्ष्मीसंभवसौख्यस्य कथिता वामलोचनाः। यथा पीयूषवाप्यश्च मनआल्हाददा सदा ॥१॥ अथ तासामेव माहात्म्यमाह--- कस्तासां कार्याकार्यविलोकनेऽधिकारः ।। ३८ ॥ टीका-या एता अमृतवाप्युपमाः स्त्रियस्तासां कार्याकार्यविलोकने कोऽधिकारः किं प्रयोजनं अपि तु न किंचित् । किन्तु अनुवर्तनीयाः सर्वदेवताः । तथा च वशिष्टः १ मेखलाणितेति पाठान्तरं मुद्रितपुस्तके । २ जघानेति सम्बन्धः ३ क्रीडासुखोपकरणमिति लिखितपुस्तके मुद्रित पुस्तके च पाठः । टीकानुसारेण परिवर्तितः । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy