SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ राजरक्षासमुद्देशः । स्त्रीणां दुश्चरितं किंचिन्न विचार्य विचक्षणैः । नाभिबाह्यं न जीवोऽतः यतस्ता अमृतोपमाः ॥ १ ॥ अथ स्त्रीणां येषु येषु कृत्येषु स्वातंत्र्यं दीयते तान्याहअपत्यपोषणे गृहकर्मणि शरीरसंस्कारे शयनावसरे स्त्रीणां स्वातंत्र्यं नान्यत्र ॥ ३९ ॥ टीका- आसां स्त्रीणां यत्स्वातंत्र्यं स्वच्छन्दता, एतेषु चतुर्षु स्थानेषु दीयते नान्यत्र । अपत्यपोषणे तावत् बालपुष्टिकरणे, । तथा गृहकर्माणि गृहकृत्ये । तथा ङ्कारीरसंस्कारे निजकायमण्डने । तथा शयनावसरे शयनप्रस्तावे । तथा च भागुरि: स्वातंत्र्यं नास्ति नारीणां मुक्त्वा कर्मचतुष्टयम् । बालानां पोषणं कृत्यं शयनं चाभूषणं ॥ १ ॥ अथातिशक्तस्य स्त्रीणां पुरुषस्य यद्भवति तदाह अतिप्रसक्तेः स्त्रीषु स्वातंत्र्यं करपत्रमिव पत्युर्नाविदार्य हृदयं विश्राम्यति ।। ४० ॥ २३३ " टीका - अतिप्रसक्तेहि सकाशात् स्त्रीषु यत्स्वातंत्र्यं तत्किं करोति न विश्राम्यति न विश्रामं गच्छति । किं कृत्वा ? अविदार्य । किं तत् ? हृदयं । कस्य ? पत्युः कान्तस्य । किमिव ? करपत्रभित्र । तथा च गर्ग: स्वातंत्र्यं यद्भवेत्स्त्रीणां सुरतेषु यथेच्छया । मर्मण्य सकृतत्त्वेन ? हृदयं पुरुषस्य च ॥ १ ॥ अथ स्त्रीवागतस्य पुरुषस्य यद्भवति तदाहस्त्रीवशपुरुषो नदीप्रवाहपतितपादप इव न चिरं नन्दति । ४१ । टीका-न दीर्घकालं वृद्धिं याति । कोऽसौ ! पुरुषः । किंविशिष्ट: ! स्त्रीवरागः । क इव ? पादप इव । किंविशिष्टः पादपः ? नदीप्रवाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy