SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २३४ नीतिवाक्यामृते पतितः । यथा नदीप्रवाहे पतितो वृक्षश्चिरं कालं न वृद्धिं याति तथा पुरुष स्त्रीवशगतः । तथा च शुक्रः न चिरं वृद्धिमाप्नोति यः स्त्रीणां वशगो भवेत् । नदीप्रवाहपतितो यथा भूमिसमुद्भवः ॥ १ ॥ अथ स्त्रीमाहात्म्यमाह - पुरुषमुष्टिस्या स्त्री खड्गयष्टिरिव कमुत्सवं न जनयति ॥ ४२ ॥ टीका - कमुत्सवं न जनयति, अपि सर्वमपि करोति । का सा ? स्त्री । केव ? खङ्गयष्टिरिव करवालवल्लीव । या स्त्री पुरुषमुष्टिस्था भवति पतिव्रतत्वसहिता भवति सा भर्तुः कं न कुर्यान्मनोरथमिति । । या नारी वशगा पत्युः पतिव्रतपरायणा । सा स्वपत्युः करोत्येव मनोराज्यं हृदि स्थितम् ॥ १ ॥ अथ स्त्रीणां पुरुषेण यत्कर्तव्यं तदाह नाती स्त्रियो व्युत्पादनीयाः स्वभावसुभगोऽपि शास्त्रोपदेशः स्त्रीषु, शस्त्रीषु पयोलव इव विषमतां प्रतिपद्यते ॥ ४३ ॥ टीका - स्त्रियः पत्या पुरुषेण नातीव व्युत्पादनीया नातिशयेन कामशास्त्रपंडिताः कर्तव्याः यतः स्वभावसुभगोऽपि कामशास्त्रोपदेशो विषमतां प्रतिपद्यते विरूपतां प्रतिपद्यते करोति । कासु ? स्त्रीषु । कास्त्रिव ? शस्त्रीष्विव च्छुरिकास्विव । यथा पयोबिन्दुः छुरिकायां निर्मलायां विषमतामुत्पादयति विरूपतां नयति एवं कुलस्त्रीणां स्वभावमुभगोऽपि कामशास्त्रोपदेशः कुलस्त्रीणां धर्मं दूषयति । तथा च भारद्वाज: न कामशास्त्रतत्वज्ञाः स्त्रियः कार्याः कुलोद्भवैः । यतो वैरूप्यमायान्ति यथा शास्त्रयं दुसंगमः ॥ १ ॥ १ वृक्षः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy