SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ राजरक्षासमुद्देशः । अथ वेश्याश्चिरं यथा पुरुषमनुभवति तदाहअध्रुवेन साधिकोऽप्यर्थेन वेश्यामनुभवति ॥ ४४ ॥ टीका - यः पुरुषः अध्रुवेन चलेपयार्थेन साधिकोनापि वेश्यामनुभवति स चिरं प्रभूतं कालं तं सेवते यः पुनर्नित्यदानेन स्वल्पेनापि सेवते तस्य त्रुटिर्भवति । तस्माद्वेश्याया नित्यमर्थो न देयः । स्वल्पोऽपि प्रभूतोऽपि कालान्तरेण देयः । येन साऽविद्यमानेऽप्यर्थे कृताशया न त्यजति । तथा च शुक्रः वेश्यानां नित्यदानं यत् तद्धि दानं शुभं न हि । अपि स्तोकं प्रभूतं च चिरदत्तं सुसिद्धये ॥ १ ॥ ar arrri नित्यमेवाकारणविसर्जनाद्यैरनर्थौ भवतः तावाहविसर्जनाकारणाभ्यां तदनुभवे महाननर्थः || ४५ ।। टीका --- एता वेश्या: सर्वसामान्या भवन्ति तद्गच्छंत्यो वा गृहादागच्छन्त्यो वा यदि कचिद्विद्वांस्तदनुभवं करोति ता अभिलषति । तद्धनलोभेन तं भजते ततश्च तेन सह प्राणान्तिकं युद्धं भवति स महाननर्थः । तस्माद्देश्यानामकारणविसर्जनं न कार्य किंवा गृहेषु कर्तव्यं, अथ कौतुक - मात्रं संसेव्य मोचनीयाः । तथा च गुरुः किं वा गुप्ताः प्रकर्तव्याः किं वा कौतुकमात्रकं । आनीय ताः प्रमोक्तव्या वेश्याः पुंभिर्विचक्षणैः ॥ १ ॥ अथ वेश्यानां स्वरूपमाह - वेश्यासक्तिः प्राणार्थहानिं कस्य न करोति ॥ ४६ ॥ टीका — वेश्यानां विषये यासौ पुरुषस्यासक्तिरतीव व्यसनं तत्कस्य प्राणहानि न करोति, अपि तु सर्वस्य । तस्माद्वेश्या त्याज्या तथा च नारद: ---- २३५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy