SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २३६ नीतिवाक्यामृते प्राणार्थहानिरेव स्याद्वेश्यायां सक्तितो नृणाम् । यस्मात्तस्मात्परित्याज्या वेश्या पुंभिर्धनार्थिभिः ॥१॥ अथ भूयोऽपि वेश्यास्वरूपमाह - धनमनुभवन्ति वेश्या न पुरुषं ॥४७॥ टीका-~-या एता वेश्या उच्यन्ते ता धनमनुभवन्ति न पुरुषं । मूर्खः पुनरेवं जानाति ममैषा सानुरागा । यदि पुनर्धनं न प्रयच्छति तत्तत्संमुखमपि नावलोकयन्ति । तथा च भारद्वाज: न सेवन्ते नरं वेश्याः सेवन्ते केवलं धनम् । धनहीनं यतो मयं संत्यजन्ति च तत्क्षणात् ॥१॥ अथ भूयोऽपि वेश्यानां स्वरूपमाहधनहीने कामदेवेऽपि न प्रीति बन्नन्ति वेश्याः ॥ ४८ ॥ टीका-न बध्नन्ति कुर्वन्ति । कां ? प्रीति स्नेहं । काः ? वेश्याः । क ! धनहीने । किविशिष्टे ? कामदेवेऽपि । तथा च भागुरि:--- न सेव्यते धनहीनः कामदेवोऽपि चेत्स्वयं । वेश्याभिर्धनलुब्धाभिः कुष्टी चापि निषेव्यते ॥१॥ अथ भूयोऽपि वेश्यास्वरूपमाहस पुमानानायतिसुखी यस्य सानुशयं वेश्यासु दानं ॥४९॥ टीका-स पुमान् पुरुषः सुखी स्यात् सुखाढ्यो भवति । कस्यां ? आपयत्यां परिणामे भविष्यत्काले । यस्य किं ? दानं । किंविशिष्टं ? सानुशयं सखेदं । कासु ? वेश्यासु । यस्य पुरुषस्य वेश्यासु विषये सानुशयं दानं भवति स आयत्यां परिणामे सुखी भवति । तथा च नारदः-- प्रदानं यस्य वेश्यायां भवेत्सानुशयं सदा । परिणामे सुखादयोऽयं जायते नात्र संशयः॥१॥ अथ वेश्यादानप्रसक्तस्य पुरुषस्य यद्भवति तदाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy