SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ राजरक्षासमुद्देशः । २३७ स पशोरपि पशुः यः स्वधनेन परेषामर्थवन्तीं करोति वेश्यां ॥ ५० ॥ __टीका-स पुरुषः सर्वेषां पशूनां मध्ये प्रधानः पशुः । यः किं करोति ? योऽर्थवती महार्थी । कां ? वेश्यां । केन ? स्वधनेन निजार्थेन । केषां ? परेषामन्येषां । आत्मनोऽपि तावद्वित्तक्षयं करोति, अन्येषामपि । तथा च वल्लभदेवः आत्मवित्तेन यो वेश्यां महार्थी कुरुते कुधीः । अन्येषां वित्तनाशाय पशूनां पशुः सर्वतः ॥१॥ अथ पुरुषस्य वेश्यासंग्रहो यथा श्रेयःप्रदो भवति तदाह--- आचित्तविश्रान्ते वेश्यापरिग्रहः श्रेयान् ॥ ५१ ॥ टीका-आङ् शब्दो मर्यादायां । आचित्तविश्रान्तेः चित्तविश्रान्ति यावत् पुरुषेण वेश्यासंग्रहः कार्यो न सदैव । एतदुक्तं भवति, वेश्यां दृष्ट्वा यदि चित्तं चलति तत्सेवनीया ततो मोचनीया । एवं कुर्वतः श्रेयः सौख्यं सदैव भवति । तथा च राजपुत्रः वेश्यादर्शनतश्चित्तं यदि वाञ्छा करोति च । तत्र सेव्याः प्रमोक्तव्या नेव नित्यं कदाचन ॥१॥ अथ पुरुषस्य वेश्यासंग्रहात् यद्भवति तदाहसुरक्षितापि वेश्या खां प्रकृति न मुञ्चति ॥ ५२ ॥ टीका--न मुञ्चति । कासौ ? वैश्या । कां ? प्रकृति । किंविशिष्टां स्वां पुरुषान्तरसेवनलक्षणां । लोभोपहता सती पुरुषविशेषान् भजति तस्मात्तस्याः संग्रहो न कार्यः । अथवा नास्ति तस्या दोषः सर्वेऽपि प्राणिनः स्वां प्रकृतिं भजन्ते । तथा च गुरु: यद्वेश्या लोभसंयुक्ता स्वीकृतापि नरोत्तमैः । सेवयेसुरुषानन्यान् स्वभावो दुस्त्यजो यतः॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy