________________
२३८
नीतिवाक्यामृतेअथ वेश्यादृष्टान्तेन जन्तूनां प्रकृतेः स्वरूपमाहया यस्य प्रकृतिः सा तस्य दैवेनापि नापनेतुं शक्यते॥५३॥ टीका-न शक्यते । कासौ ? प्रकृतिः स्वभावलक्षणा । किं कः ? अपनेतुं नाशयितुं। या यस्य संभवा सहसा । केन ? दैवेनापि विधात्रापि । आस्तां तावन्मनुष्येण । तथा च नारद:---
व्याघ्रः सेवति काननं सुगहनं सिंहो गुहां सेवते ___ हंसः सेवेति पद्मिनी कुसुमितं गृध्रः स्मशानस्थली। साधुः सेवति साधुमेव सततं नीचोऽपि नीचं जनं
या यस्य प्रकृतिः स्वभावजनिता दुःखेन सा त्यज्यते ॥१॥ अथ भूयोऽपि श्वप्रकृतिदृष्टान्तेनात्मप्रकृतिस्वरूपमाहसुभोजितोऽपि श्वा किमशुचीन्यस्थीनि परिहरति ॥ ५४॥
टीका--इवा सारमेयः सुभोजितोऽपि तृप्ति नीतोऽपि, किमशुचीन्यमेध्यानि अस्थीनि परिहरति, अपि न परिहरति । तथा च भृगुः
स्वभावो नान्यथा कर्तुं शक्यः केनापि कुत्रचित् । श्वेव सर्वरसान् भुक्त्वा विनामेध्यान्न तृप्यति ॥१॥ भूयोऽपि स्वप्रकृतिस्वरूपमाह-- न खलु कपिः शिक्षाशतेनापि चापल्यं परिहरति ॥ ५५ ॥ टीका-कपि,निरो न परिहरति न त्यजति किं तच्चापल्यं चपलत्वं । केन कृत्वा ? शिक्षाशतेनापि । तथा चात्रिः
प्रोक्तः शिक्षाशतेनापि न चापल्यं त्यजेत्कपिः। स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा ॥१॥ अथ भूयोऽपि स्वप्रकृतिस्वरूपमाह--- १षेवृङ् सेवने इत्यस्य नित्यमात्मनेपदित्वेऽपि परस्मैपदित्वं चित्रकृत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org