SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ राजरक्षासमुद्देशः । इक्षुरसेनापि सिक्तो निम्बः कटुरेव ।। ५६ ।। टीका — निम्बो वृक्षविशेषः स कटुरेव । किंविशिष्टः : सिक्तः । केन ? इक्षुरसेनापि । तथा च गर्गः - पिशुनं दानमाधुर्य संप्रयायि कथंचन । सिक्तश्चक्षुरसेनापि दुस्त्यजा प्रकृतिर्निजा ॥ १ ॥ अथ कुल्यानां पोषणे यद्भवति तदाह सन्मान दिवसादायुः कुल्यानामपरिग्रहहेतुः ॥ ५७ ॥ टीका - कुल्यानां सजातीयानां दायादानां सन्मानदिवसादारभ्य यः आयुः तत्प्रदानं ताप्रग्रह: ( ? ) हेतुर्विनाशकारणं । तथा च शुक्रः कुल्यानां पोषणं यच क्रियते मूढपार्थिवैः । आत्मनाशाय तज्ज्ञेयं तस्माच्याज्यं सुदूरतः ॥ १ ॥ अथ दायादानां को तंत्रवृद्धया यद्भवति तदाहतंत्रकोशवर्धिनी वृत्तिर्दायादान् विकारयति ॥ ५८ ॥ टीका -- विकारयति विकार नयति । कासौ ? वृतिर्वर्तनलक्षणा । कान् ? दायादान् । किंविशिष्टा ? कोशतंत्रवर्द्धिनी । तंत्र हस्त्यश्वादिबलं । कोशो भांडागारं । या वृतिर्वघयति सकृतासती दायादान् सविकारान् करोति । तथा च गुरुः वृत्तिः कार्या न कुल्यानां यया सैन्यं विवर्धते । सैन्धवृद्धा तु तेनन्ति स्वामिनं राज्यलोभतः ॥ १ ॥ अथ कुल्यानामपि यथा तंत्रकोश वृद्धिः कार्या तथाहभक्तिविश्रम्भादव्यभिचारिणं कुल्य पुत्रं वा संवर्धयेत् ॥ ५९ ॥ टीका — संवर्धयेत् वृद्धिं नयेत् । कं ? कुल्यं दायादं । कथंभूतं ? अव्यभिचारिणं । कदाचिद्योऽव्यभिचारिणं विकारं न करोति । कस्मात् ? भक्तिविश्रम्भात् भक्तिव्याजात् । तथा च नारद: Jain Education International - For Private & Personal Use Only २३९ _________ www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy