________________
नीतिवाक्यामृते
वर्धनीयोऽपि दायादः पुत्रो वा भक्तिभाग्यदि । न विकारं करोतिस्म ज्ञात्वा साधुस्ततः परं ॥ १ ॥ अथ दायादस्य पुत्रस्य साधुवृत्तस्य यत्कर्तव्यं तदाह
२४०
विनियुञ्जीत उचितेषु कर्मसु ॥ ६० ॥
टीका- - ततोऽविकारं ज्ञात्वोचितेषु कर्मसु विनियुञ्जीत योजयेत् । केषु ? कर्मसु अधिकारेषु । किंविशिष्टेषु उचितेषु योग्येषु । तथा च वल्लभदेव:
----
स्थानेष्वेव नियोज्यन्ते भृत्या आभरणानि च । न हि चूडामणिः पादे प्रभवामीति बध्यते ॥ १ ॥ अथ भृत्येन भर्तुः यः कर्तव्यं तदाह
भर्तुरादेशं न विकल्पयेत् ॥ ६१ ॥
टीका–भर्तुः स्वामिनो योऽसावादेशस्तं यः सद्भूत्यो भवति स न
विकल्पयति । तथा च गुरुः---
स्वाम्यादिष्टस्तु यो भृत्यो न विकल्पपरो भवेत् । समुद्रतरणार्थाय प्रविशेद्वा हुताशनम् ॥ १ ॥ अथ भृत्येन स्वाम्यादेशो न कार्यस्तदाह-
अन्यत्र प्राणयाधाबहुजनविरोधपातकेभ्यः ॥ ६२ ॥
टीका - प्राणबाधा प्राणविनाशो न तमादेशं मुक्त्वा ( बहुजना - नां विरोधः पातकं च एतान् भुक्त्वा ) नान्यादेशं विकल्पयेत् ।
अथ — बलवान् यस्य दायादस्य पक्षो भवति तस्य वशीकरणं यथा भवति तदाह
बलवत्पक्षपरिग्रहेषु दायिष्वाप्तपुरुषपुरःसरो विश्वासो वशीकरणं गूढपुरुषनिक्षेपः प्रणिधिर्वा ॥ ६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org