SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ राजरक्षासमुद्देशः । २४१ टीका-आप्ता निजा ये पुरुषास्तैरनेसरैः प्रजल्पमानैर्यो विश्वासः समुत्पद्यते तद्वशीकरणं तेषु अन्यत्र गूढचरगुप्तपणिधिस्तेषु वशीकरणं यस्तेषां सर्व चेष्टितं निवेदयतीति । तथा च शुक्रः बलवत्पक्षदायादा आप्तद्वारेण वश्यगाः। भवन्ति चातिगुप्तैश्च चरैः सम्यग्विशोधिताः ॥१॥ अथ दुर्बोधे सुते दायादे वा यत्कर्तव्यं तदाहदुर्बोधे सुते दायादे वा सम्यग्युक्तिभिर्दुरभिनिवेशमवतारयेत ॥ ६४ ॥ टीका-अवतारयेत् स्फोटयेत् । किं ? दुरभिनिवेशं मूर्खाग्रहं । कस्मिन् सति ? दुर्बोचे सति मूर्खत्वयुक्ते सति । कस्मिन् ? सुते पुत्रे दायादे वा दुरभिनिवेशमवतारयेत्। काभिः कृत्वा ? युक्तिभिः प्रपंचैः । एतदुक्तं भवति यदा तु पुत्रो बान्धवो वा विरुद्धो भवति तदा युक्तिभिः सन्तोषः कार्यः । तथा च रैभ्यः पुत्रो वा बान्धवो वापि विरुद्धो जायते यदा । तदा सन्तोषयुक्तस्तु सत्कार्यो भूतिमिच्छता ॥१॥ अथ साधूनां सुचाराणां यो विकृतिं करोति तस्य यद्भवति तदाहसाधूषूपचर्यमाणेषु विकृतिभजनं स्वहस्ताङ्गाराकर्षणमिव ॥६५॥ टीका-साधुषु लोकेषूपचर्यमाणेधूपकारं क्रियमाणेषु यद्विकृतिभजनं विरुद्ध क्रियते । तत्किविशिष्टमिव ? स्वहस्ताङ्गाराकर्षणमिव स्वहस्तेन तावदङ्गाराणां कर्षणं क्रियते । तथा च भागुरिः साधूनां विनयाढ्यानां विरुद्धानि करोति यः । स करोति न सन्देहः सहस्तेनाग्निकर्षणम् ।। १ ।। अथ मातृपितृभ्यामशुद्धाभ्यामपत्यानि यादृक्षाणि भवन्ति तदाहनीति०-१६ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy