SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २४२ नीतिवाक्यामृते क्षेत्रबीजयोवैकृत्यमपत्यानि विकारयति ॥६६॥ टीका-तथा च यथा पुत्रः समाचष्टे मातुः शीलं स्वकैर्गुणैः । तथा स्वादु जलं लोके तुः ? ख्याति शुभाशुभम् ॥१॥ क्षेत्रं माता, बीजं पिता ताभ्यां यद्वैकृत्यमकुलीनता स्यात् अपत्यानि तद्विकारयति विकृतिं नयति । अपत्यानां चेष्टितेन मातृपितृभ्यामकुलीनता ज्ञायते । तथा च गर्गः परभूतान्यपत्यानि तानि म्युौवने स्थिते । ? तानि बुद्धिं वदन्तिस्म पितृमातृसमुद्भवं ॥१॥ अथ पुरुषोत्तमस्य यथोत्पत्तिर्भवति तदाह -- कुलविशुद्धिरुभयतः प्रीतिर्मनःप्रसादोऽनुपहतकालसमयश्च श्रीसरस्वत्यावाहनमंत्रपूतपरमान्नोपयोगश्च पुरुषोत्तममवतारयन्ति ॥६७॥ ___टीका-एते ये पदाङ्काः प्रोक्तास्तैर्यथोदितं तेनानुष्ठितेन गर्भाधानेन गर्भग्रहणसमये पुरुषोत्तमं पुरुषप्रधानमवतारयन्ति जनयन्ति । कथं ! तावत् कुलविशुद्धिः मातृपितृसमुद्भवा ततश्च ताभ्यामुभयतः प्रीतिः परस्परं स्नेहः । ततश्च मनःप्रसादः एकचित्तता। ततश्चानुपहतकालसमयश्च निरुपहतवेला धूलिकादिभिर्दोषैः । तथा श्रीसरस्वत्यावाहनमंत्रपूतपरमान्नोपयोगश्च श्रीलक्ष्मीः सरस्वती भारती द्वाभ्यामपि ये मंत्रास्तैरभिमंत्र्य पूतं पवित्रीकृतं परमं उत्कृष्टं अन्नं तस्योपयोगो भक्षणं । तेन यत् समयसुरसेन (१) यो गर्भो भवति स पुरुषोत्तमो भवतीति । तथा च शुक्रः बीजयोनौ तथाहारौ यस्य नो विकृतिर्भवेत् । तथा मैथुनसम्पर्कः श्रेष्ठः संजायते पुमान् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy