SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ राजरक्षासमुद्देशः । २४३ ram.or अथापत्येषु लाभालाभद्वयमाह गर्भशर्मजन्मकर्मापत्येषु देहलाभात्मलाभयोः कारणं परमम् ।। ६८ ॥ टीका-~-अपत्येषु कर्मरूपेषु एतद्यथासंभाव्येन देहलाभात्मलाभयोः कारणमस्ति । कस्य कस्य किं ? देहस्य तावद्गर्भशर्म यदि मातापत्येन शर्मवती तदापत्यस्यापि देहं शरीरं पुष्टमारोग्यं भवति । यदि जन्मकर्म जन्मविद्यानन्दशुभं भवति शुभग्रहनिरीक्षितो भवति तदात्मलाभो जीवितलाभ इत्यर्थः । तदपत्यमुत्तममुत्कृष्ट कारणमिति । तथा च गुरुः गर्भस्थानमपत्यानां यदि सौख्यं प्रजायते । तद्भवेद्धि शुभो देहो जीवितव्यं च जन्मनि ॥१॥ अथ यादृशानां पुरुषाणां राज्याधिकारो भवति प्रव्रज्याधिकारश्च तानाह स्वजातियोग्यसंस्कारहीनानां राज्यं प्रव्रज्यायां च नास्त्यधिकारः ॥ ६९ ॥ टीका–नास्ति न विद्यते कोऽसावधिकारः । क ? राज्ये । केषां ? स्वजातियोग्यसंस्कारहीनानां स्वकीया जातिः स्वजातिस्तस्या योग्यो योऽसौ संस्कारोऽनुष्ठानलक्षणस्तेन हीना ये तेषामधिकारो नास्ति राज्ये प्रव्रज्यायां च । तथा च शुक्रः स्वजात्ययोग्यसंस्कारये नरा परिवर्जिताः। अधिकारो न राज्येषु न च तेषां व्रतेषु च ॥१॥ अथ व्यंगानां यथा राज्याधिकारोऽस्ति तदाह असति योग्येऽन्यस्मिन्नङ्गविहीनोऽपि पितृपदमहत्यापुत्रोत्पत्तेः ॥ ७० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy