SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते टीका -- असति अविद्यमानेऽन्यस्मिन् पुत्रे योग्ये व्यंगोऽपि पुत्रः काणः कुब्जोऽन्धो वा पितृपदमर्हति राजावसाने स्थितः । कियत्कालं यावत् ? आ पुत्रोत्पत्तेः यावत्तद्वयङ्गस्य पुत्रो भवति पुत्रे जाते सति स जातमात्रोऽपि राज्यपदे कर्तव्यो न व्यंगः । तथा च शुक्रः -- राजाभवे तु संजाते योग्यः पुत्रो न चेद्भवेत् । तदा व्यंगोऽपि संस्थाप्यो यावत्पुत्रसमुद्भवः ॥ १ ॥ अथ राजपुत्राणां यथाभ्युदयो न दोषवान् भवति तदाहसाधुसम्पादितो हि राजपुत्राणां विनयोऽन्वयमभ्युदयं न च दूषयति ।। ७१ ।। टीका- न दोषयुक्तं करोति कोऽसौ ? विनयः । कं ? अन्वयं वंशं अभ्युदयं च राज्यवृद्धिं च । केषां ? राजपुत्राणां । किंविशिष्टो विनयः ? साधुसम्पादितः साधुभिः सम्पादितः शिष्टनियोजितः । तथा च वादरायण: २४४ ― विनयः साधुभिर्दत्तो राजज्ञानां भवेद्धि यः । न दूषयति वंशं तु न राज्यं न च सम्पदम् ॥ १ ॥ अथाविनीतस्य राजपुत्रस्य चेष्टितं राज्यं यादृग्भवति तदाहघुणजग्धं काष्ठमिवाविनीतं राजपुत्रं राजकुलम मियुक्तमात्रं भज्येत् ॥ ७२ ॥ I I टीका - भज्येत् विनाशं याति । किं तत् राज्यं राजवंश: । यदि किं ? यदि अभियुक्तं यदि राज्ये स्थापितं । कं ? राजपुत्रं । किंविशिष्टं ? अविनीतं दुराचारं । किमिव भज्येत् ? काष्टमिव । किंविशिष्टं काष्ठं ? घुणजग्धं कृमि विशेषभक्षितं । तस्मादविनीतो राजपुत्रो राज्ये न नियोक्तव्यः । तथा च भागुरि: -- राजपुत्रो दुराचारो यदि राज्योतिषेवितः ? | तद्राज्यं नाशमायाति घुणजग्धं च दारुवत् ॥ १ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy