________________
राजरक्षासमुद्देशः।
२४५
अथ यादृक्षा राजपुत्राः पितरं न द्रुह्यन्ति तेषां स्वरूपमाह
आप्तविद्यावृद्धोपरुद्धाः सुखोपरुद्धाश्च राजपुत्राः पितरं नाभिद्रुह्यन्ति ॥ ७३ ॥
टीका--ये राजपुत्रा आप्तविद्यावृद्धोपरुद्धा भवन्ति । आप्ता निजा ये विद्यावृद्धा विद्वांसो विद्यया कृत्वा ये वृद्धा न जरसा तैर्ये उपरुद्धा वृद्धिं नीताः । तथा सुखोपरुद्धाः सुखेन ये वृद्धिं नीतास्ते कदाचिदेव पितरं न द्रुह्यन्ति न व्यापादयन्ति । तथा च गौतमः
आप्तैर्विद्याधिकैर्येऽत्र राजपुत्राः सुरिक्षिताः। वृद्धिं गताश्च सौख्येन जनकं न द्रुह्यन्ति ते ॥१॥ अथ राजपुत्राणां मातापितरौ यादृग्भूतौ तदाहमातृपितरौ राजपुत्राणां परमं दैवं ॥ ७४ ॥ टीका—माता च पिता च मातृपितरौ राजपुत्राणां । किंविशिष्टौ भवतः ? परममुकृष्टं दैवं प्राक्तनं कर्मेत्यर्थः । यदि तैरन्यजन्मनि सुकृतं कृतं भवति तन्मातृपितृभ्यां सकाशात् राज्यप्राप्तिर्भवति । अथवा दुष्कृतं कृतं भवति तत्ताभ्यां पार्वाद्विनाशो भवति । तथा च गर्गः
जननीजनकावेतौ प्राक्तनं कर्म विश्रुतौ। सर्वेषां राजपुत्राणां शुभाशुभप्रदौ हि तौ ॥१॥ अथ मातृपितृणां सकाशात् राजपुत्राणां यद्भवति तदाहयत्प्रसादादात्मलाभो राज्यलाभश्च ॥ ७५ ॥
टीका-याभ्यां प्रसादादात्मलाभः शरीरलाभो राज्यलाभश्च भवति। तथा च रैभ्यः--
अत एव हि विशेयौ जननीजनकावुभौ । देवं याभ्यां प्रसादेन शरीरं राज्यमाप्यते ॥१॥ अथ ये राजपुत्रा मातृपितृभ्यामपमानं कुर्वन्ति तेषां यद्भवति तदाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org