________________
२४६
नीतिवाक्यामृते
मातृपितृभ्यां मनसाप्यपमानेष्वभिमुखा अपि श्रियो विमुखा भवन्ति ॥ ७६ ॥
टीका-भवन्ति जायन्ते । काः ? श्रियो लक्ष्म्यः । किंविशिष्टाः? विमुखा वैपरीत्येन संयुक्ताः। कीदृश्योऽपि ? सम्मुखा अपि सप्रसादा अपि। केषु ? राजपुत्रेषु । किंकुर्वाणेषु ? अपमन्यमानेषु अपमानपरेषु । केन कृत्वा ? मनसापि। आस्तां तावत्कर्तव्येन। काभ्यां ? मातृपितृभ्यां तस्माद्राजपुत्रेण मनसापि न मातृपितृभ्यामपमानः कार्यः । तथा च वादरायणः
मनसाप्यमानं यो राजपुत्रः समाचरेत् । सदा मातृपितृभ्यां च तस्य श्रीः स्यात् परामखा ॥१॥ अथ मातृपितृभ्यामपमानेन कृत्वा लब्धेनापि राज्येन यद्भवति तदाह
किं तेन राज्येन यत्र दुरपवादोपहतं जन्म ॥ ७७ ॥
टीका-किं तेन राज्येन वृथैव तद्राज्यं । यत्र किं स्यात् ? जन्म । किंविशिष्टं दुरपवादोपहतं दुष्टोऽपवादो दुरपवादो लोकनिन्दा सा यत्र राज्ये भवति तद्राज्यं वृथैव । तथा च शुक्रः
जनापवादसहितं यदाज्यमिह कीर्त्यते । -
प्रभूतमपि तन्मिथ्या तत्पापायं राजसंस्थिते ॥१॥ अथ राजपुत्रेण यत्कर्तव्यं तदाहकचिदपि कर्मणि पितुराज्ञां नो लंघयेत् ॥ ७८ ॥
टीका-नोलंघयेत् नातिक्रमेत् । कोऽसौ ? राजपुत्रः । कां ? आज्ञामा. देशं । कस्य ? पितुः । क विषये ? कचिदपि कर्मणि । तथा च भगु:
राजपुत्रः समादिष्टः पित्रा रौद्रेऽपि कर्मणि ।
आदेशं नान्यथा कृपस्य यततोऽपि च ?॥१॥ अथ रामदृष्टान्तेन पितुराज्ञाकरणमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org