SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ राजरक्षासमुद्देशः। २४७ किन्नु खलु रामः क्रमेण विक्रमेण वा हीनो यः पितुराज्ञया वनमाविवेश ॥ ७९ ॥ टीका-गतार्थमेतत् । अथ राजपुत्रस्य यथाविरुद्धं न कर्तव्यं तदाह यः खलु पुत्रो मनसितपरम्परया लभ्यते स कथमपकर्तव्यः ॥ ८ ॥ टीका-यः पुत्रो लभ्यते । कथं? मनसितपरंपरया देवानामुपयाचितशतैः स कथमपकर्तव्यः कथं तस्य वधादिकं चिन्तनीयमित्यर्थः । तथा च गुरुः उपयाचितसंघातैर्यः कृच्छ्ण प्रलभ्यते । तस्मादात्मजस्य नो पापं चिन्तनीयं कथंचन ॥१॥ अथाशुभस्यापि कर्मणः करणीयमाह कर्तव्यमेवाशुभं कर्म यदि हन्यमानस्य विपद्विधानमात्मनो न मवेत् ॥ ८१ ॥ टीका-अशुभमपि कर्म कर्तव्यं पुरुषेण । यदि किं तत्स्यात् ? यदि विपद्विधानं यत्तस्य क्रियते वाढं रक्षणं तदा ह्यात्मनो न भवेत् । एतदुक्तं भवति, पुत्रे हते यदेतस्य कोपि पक्षपतिस्तस्य वचनाधारो न भवेत् , हन्यमानस्यापरस्य यज्जातं तदात्मनो यदि न भवेत् । तथा च गर्गः अनिष्टमपि कर्तव्यं कर्म पुभिर्विचक्षणैः ॥ तस्य चेद्धन्यमानस्य यज्जातं तत्स्वयं भवेत् ॥१॥ अथ राजपुत्राणां यथा सौख्यं भवति तदाहते खलु राजपुत्राः सुखिनो येषां पितरि राज्यभारः ॥८२॥ १ अस्यावतरणिकाव्युक्तिश्च वर्तते न सूत्रं नापि व्याख्या, सूत्रं तु मुद्रितमूलपुस्तकात् संयोजितं वृतिश्च कल्पिता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy