SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २४८ नीतिवाक्यामृते टीका-(ते राजपुत्रा भवंति । किंविशिष्टाः ? सुखिनः सुखसमाक्रान्ताः । येषां किं ? येषां राज्यभारः राज्यकीयं कृत्यं वर्तते । क्व ? पितरि )। तथा चात्रिः-- येषां पिता वहदत्र राज्यभारं सुदुर्वहम् । राजपुत्रा सुखाढ्याश्च ते भवन्ति सदैव हि ॥१॥ अथ राज्यश्रियो दूषणमाह अलं तया श्रिया या किमपि सुखं जनयन्ती व्यासंगपरंपराभिः शतशो दुःखमनुभावयति ॥ ८३॥ ___टीका—अलं तया श्रिया पर्याप्तं व्यर्थया तया लक्ष्म्या। या किमपि सुखं कियन्मानं स्तोकं शर्म जनयन्ती व्यासंगपरम्पराभिः क्लेशमालाभिः शतस्य प्रभूततरं दुःखं कष्टं अनुभावयति प्रकटयति । तस्मादक्लेशेन या श्रीः सा श्रीर्मण्यते नान्या । तथा च कौशिकः-- अल्पसौख्यकरा या च बहुक्लेशप्रदा भवेत् । वृथा सात्र परिज्ञेया लक्ष्म्याः सौख्यफलं यतः॥१॥ अथ निष्फलस्यारम्भस्य स्वरूपमाहनिष्फलो ह्यारम्भः कस्य नामोदर्केण सुखावहः ॥ ८४ ॥ टीका-~-फलरहितो य आरंभः प्रयोजनः स कस्योदर्के परिणामकाले सुखावहः सुखं जनयेत् न तं प्राज्ञः कथमपि कुर्यात् । तथा चं ... ... ॥१॥ अथ परक्षेत्रं यः कृषति कर्षापयति वा यो ग्रामीणः तस्य यद्भवति तदाह परक्षेत्रं स्वयं कृषतः कर्षापयतो वा फलं पुनस्तस्यैव यस्य तत्क्षेत्रम् ॥ ८५॥ १ त्रुटितोऽयं श्लोकः कर्तुर्नाम च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy