SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ राजरक्षासमुद्देशः । २४९ टीका - परं क्षेत्रं स्वयं कृषतोऽन्यपाश्र्वात्कर्षापयतो वा पुरुषस्य न किंचित्फलं भवति तत्र यत्फलमुत्पद्यते तत्क्षेत्रस्वामिन एव । तथा च कौशिक: परक्षेत्रे तु यो बीजं परिक्षयति मन्दधीः । परिक्षेपयतो वापि तत्फलं क्षेत्रपस्य हि ॥ १ ॥ अथ ये राजन्युपरते राजार्हा भवन्ति तानाह - सुतसोदरसपत्नपितृव्य कुल्यदोहित्रागन्तुकेषु भवत्युत्तरस्य राज्यपदावाप्तिः ॥ ८६ ॥ पूर्वपूर्वाभावे टीका- राजन्युपरते एतेषां सप्तसंख्यानां उत्तरोत्तरन्यायेन तयोर्यस्य कुर्वतस्तस्य तद्राज्यपदस्याधिकारः । पुत्रस्य तावत् प्रथमाधिकारः । तदभावे सोदरस्य भ्रातुः । तदभावे सपत्नस्य वैमात्रिकस्य । तदभावे पितृभ्रातुः । तदभावे कुल्यस्य गोत्रिणः । तदभावे दौहित्रस्य सुतासुतस्य । तदभावे आगन्तुकस्य राज्यार्हस्य पदं योग्यं । तथा च शुक्रःसुतः सोदरसापत्नपितृव्या गोत्रिणस्तस्था | दौहित्रागन्तुका योग्या पदे राज्ञो यथाक्रमम् ॥ १ ॥ अथ पापाचारस्य सभायां गतस्य लक्षणमाह- शुष्कश्याममुखता वाक्स्तम्भः स्वेदो विजृम्भणमतिमात्रं वेपथुः प्रस्खलनमास्यप्रेक्षणमावेगः कर्मणि भूमौ वानवस्थानमिति दुष्कृतं कृतः करिष्यतो वा लिंगानि ॥ ८७ ॥ टीका - दुष्कृतं पापं कृतवतः पुरुषस्य करिष्यतो वा सभां नीतस्यैतानि पूर्वोक्तानि लिंगानि चिन्हानि भवन्ति । तैरव लक्षयेत्पापाचारोऽयं । कानि कानि लिङ्गानि शुष्कस्तावद्भूत्वा कृष्णमुखो भवति । तथा वाक्स्तम्भो वक्तुं न शक्नोति । तथा प्रस्वेदः प्रस्विद्यति । तथा विजभम्णं मुखप्रसरणं मुहुर्मुहुः करोति । तथातिमात्रं वेपथुरतिशयेन कम्पनं । For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy