________________
दण्डनीतिसमुद्देशः।
१०३
प्रजापालनाय राज्ञा दण्डः प्रणीयते न धनार्थम् ॥ ३॥ टीका-योऽसौ राज्ञा दण्डः प्रणीयते कृतापराधेभ्यो दीयते स प्रजापालनाय देशविवृद्धयर्थ न धनार्थं तस्माद्भूभुजा धनलोभो न कर्तव्यः । तथा च गुरु:
यो राजा धनलोभेन हीनाधिककराप्रियः ।
तस्य राष्ट्र व्रजेन्नाशं न स्यात्परमवृद्धिमत्॥१॥ अथ राज्ञो वैद्यस्य वा छिद्रान्वेषणपरस्य यद्भवति तदाह
स किं राजा वैद्यो वा यः खजीवनाय प्रजासु दोषमन्वेषयति ॥४॥
टीका-स किं राजा यः प्रजासु विषये दोषमन्वेषयति छिद्रान्वेषणपरो भवति स कण्टकः शत्रुः। कासा ? प्रजानां । यतः कलिकाले कामक्रोधलोभादयो दोषाः प्रायेण संभवन्ति तेन सर्व छिद्रमयं जगत् एवं ज्ञात्वा परिभूतपुरुषस्य तच्छत्रौ यथार्हो दण्डः कार्यः न परवाक्येन स्वजीवनाय निर्वहणनिमित्तं । तथा च शुक्रः
यो राजा परवाक्येन प्रजादण्डं प्रयच्छति ।
तस्य राज्यं क्षयं याति तस्माज्ज्ञात्वा प्रदण्डयेत् ॥१॥ अपि च--
छिद्रान्वेषणचित्तेन नृपस्तंत्रं न पोषयेत् ।
तस्य तन्नाशमभ्यति तस्मात्त्ववगाजनारिता? ॥२॥ तथा च वैद्यः स्वजीवनाय प्रजासु दोषमन्वेषयति रोगवृद्धिकराणि भेषजानि प्रयच्छति धनिनां स वैद्यो न भवति सोऽपि प्रजाकण्टकः । तथा च गुरुः---
१ प्रजाहितार्थ इत्यन्यःपाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org