SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ दण्डनीतिसमुद्देशः। १०३ प्रजापालनाय राज्ञा दण्डः प्रणीयते न धनार्थम् ॥ ३॥ टीका-योऽसौ राज्ञा दण्डः प्रणीयते कृतापराधेभ्यो दीयते स प्रजापालनाय देशविवृद्धयर्थ न धनार्थं तस्माद्भूभुजा धनलोभो न कर्तव्यः । तथा च गुरु: यो राजा धनलोभेन हीनाधिककराप्रियः । तस्य राष्ट्र व्रजेन्नाशं न स्यात्परमवृद्धिमत्॥१॥ अथ राज्ञो वैद्यस्य वा छिद्रान्वेषणपरस्य यद्भवति तदाह स किं राजा वैद्यो वा यः खजीवनाय प्रजासु दोषमन्वेषयति ॥४॥ टीका-स किं राजा यः प्रजासु विषये दोषमन्वेषयति छिद्रान्वेषणपरो भवति स कण्टकः शत्रुः। कासा ? प्रजानां । यतः कलिकाले कामक्रोधलोभादयो दोषाः प्रायेण संभवन्ति तेन सर्व छिद्रमयं जगत् एवं ज्ञात्वा परिभूतपुरुषस्य तच्छत्रौ यथार्हो दण्डः कार्यः न परवाक्येन स्वजीवनाय निर्वहणनिमित्तं । तथा च शुक्रः यो राजा परवाक्येन प्रजादण्डं प्रयच्छति । तस्य राज्यं क्षयं याति तस्माज्ज्ञात्वा प्रदण्डयेत् ॥१॥ अपि च-- छिद्रान्वेषणचित्तेन नृपस्तंत्रं न पोषयेत् । तस्य तन्नाशमभ्यति तस्मात्त्ववगाजनारिता? ॥२॥ तथा च वैद्यः स्वजीवनाय प्रजासु दोषमन्वेषयति रोगवृद्धिकराणि भेषजानि प्रयच्छति धनिनां स वैद्यो न भवति सोऽपि प्रजाकण्टकः । तथा च गुरुः--- १ प्रजाहितार्थ इत्यन्यःपाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy