SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ९ दण्डनीति-समुद्देशः। अथ दण्डनीतिरारभ्यते । तत्र तावद्दण्डमाहात्म्यमाहचिकित्सागम इव दोषविशुद्धिहेतुर्दण्डः ॥१॥ टीका-~-~योऽसौ अपराधिनां दण्डः क्रियते, स किंविशिष्टः ? दोषविशुद्धिहेतुः कारणं । एतदुक्तं भवति-योऽसौ राजा चौरजारादीनां निग्रहं करोति, स निग्रहः किंविशिष्टः ? सर्वदोषविशुद्धिहेतुः । क इव? चिकित्सागम इव, यथा चिकित्सागमो वैद्यकं सर्वदोषसन्निपातादीनां विनाशहेतुर्भवति तथा दण्डः । तथा च गर्गः अपराधिषु यो दण्डः स राष्ट्रस्य विशुद्धये। विना येन च सन्देहो मात्स्यो न्यायः प्रवर्तते ॥१॥ अथ दण्डनीतेः स्वरूपमाहयथादोषं दण्डप्रणयनं दण्डनीतिः ॥ २ ॥ टीका-यथादोषं यत्प्रमाणापराधस्य दंड प्रणयनं दण्डग्रहणं सा दण्डनीतिः, न सातर्हस्य ( ? ) द्विशतमात्रो दण्डः । तथा हस्तपादच्छेदार्हस्य न शिरः ( छेदः) कार्यः । तथा विप्रस्य न क्षत्रियवद्दण्डः । न क्षत्रियस्य वैश्यवत् । न वैश्यस्य शूद्रवत् । न शूद्रस्यान्त्यजवत् । एते सर्वेऽपि दण्डा भूभुजा धर्माकरणे (धर्माधिकरणेन धर्मकारणे वा) निश्चेतव्याः । तथा च गुरु: स्मृत्युक्तवचनैर्दण्डं हीनाधिक्यं प्रपातयन् । · अपराधकपापेन लिप्यते न विशुद्धयति ॥१॥ अथ यन्निमित्तं राजा दण्डं करोति तदाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy