SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ वार्तासमुद्देशः । १०१ दाक्षिण्यं न कुर्वन्ति । अथवा तदर्थमकृत्यं क्रियते तदपि दाक्षिण्यं न कुर्वन्ति । तथा च हारीत:--- वार्द्धषिकस्य दाक्षिण्यं विद्यते न कथंचन । कृत्याकृत्यं तदर्थं च कृतैः संख्यविवर्जितैः॥१॥ . अथ पुरुषेण स्वशरीररक्षार्थ यत्कृत्यं तदाहअप्रियमप्यौषधं पीयते ॥ २५ ॥ टीका-किलौषधं काथादिकं यद्यप्रियं भवति कटुकं तथापि पीयते येनारोग्यं शरीरं भवति तथान्यैरपि पदार्थैर्धर्मार्थकामादिभिर्यथा शरीरस्यारोग्यता भवति तथा कार्य । तथा च वर्ग: धर्मार्थकामपूर्वैश्च भेषजैर्विविधैरपि । यथा सौख्याचिकं पश्येत्तथा कार्य विपश्चिता ॥१॥ अथ तस्यैव पूर्वसूत्रस्य प्रतिष्ठामाहअहिदष्टा स्वाङ्गलिरपि च्छिद्यते ॥२६॥ टीका-~-यतो निर्मूल्यौषधैर्महाधैंः (१) गृह्णति अर्थक्षयो भवति । जिह्वाया असन्तोषो भवति । तथा धर्मार्थकामरेनुगतैरपि वित्तक्षयो भवति तथा मनसोऽसन्तोषो भवति । तत्कस्मादेतत्कृतं तदत्र विषये दृष्टान्तमाह-यथाहिदष्टाङ्गुलिः शरीररक्षार्थ व्यथामप्यधिकां करोति तथापि च्छिद्यते त्यज्यते । एवं शरीररक्षार्थेऽर्थस्य तृष्णा न कार्या शरीरेण विद्यमानेन भूयोप्यर्थसम्पत्तिर्भवति तथाहिदष्टाङ्गलित्यागाच्छरीरं भवति । उक्तं च शरीरार्थे न तृष्णा च प्रकर्तव्या विचक्षणैः। शरीरेण सता वित्तं लभ्यते न तु तद्धनैः॥१॥ इति वार्तासमुद्देशः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy