________________
१००
नीतिवाक्यामृते
"
बलाधिकाः, वार्द्धषिका येऽन्नसंग्रहं कृत्वा दुर्भिक्षं वाञ्छन्ति एते सर्वे राष्ट्रस्य कण्टका देशस्य शत्रुभूताः सामादिभिरुपायै राष्ट्रमुपद्रवन्ति तस्माद्भूभुजा नोपेक्षितव्याः । तथा च गुरुः
चौरादिकेभ्यो दृष्टेभ्यो यो न राष्ट्रं प्ररक्षति । तस्य तन्नाशमायाति यदि स्यात्पितृपैतृकम् ॥ १ ॥ अथ यदृक्षे राज्ञि राष्ट्रकण्टका न भवन्ति तदाहप्रतापवति राज्ञि निष्ठुरे सति न भवन्ति राष्ट्रकण्टकाः ॥२२॥ टीका -यत्र राष्ट्रे राजा प्रतापी बहुपुण्यो भवति तथाज्ञया निष्ठुरो नीतिकर्ता च तत्रैते राष्ट्रकण्टका न भवन्ति । तथा च व्यासः - यथोक्तनीतिनिपुणो यत्र देशे भवेन्नृपः ।
सप्रतापो विशेषेण चौराद्यैर्न स पीड्यते ॥ १ ॥ अथान्यायवृद्धया वार्द्धपिका [न] भवन्ति देशस्य यत्कुर्वन्ति तदाहअन्यायवृद्धिो वार्द्धषिकास्तंत्रं देशं च नाशयन्ति ॥ २३ ॥ टीका - वार्द्धषिका: पूर्वोक्ताश्चानीतिवृद्धितः श्रिताः सन्तः तंत्र राज्ञश्चतुष्पदादिकं तथा देशं नाशयन्ति तेषामन्यायवृद्धिः पार्थिवेन रक्षणीयाः । तथा च भृगुः
यत्र वार्द्धषिका देशं अनीत्या वृद्धिमाययुः । सर्वलोकक्षयस्तत्र तिरश्चां च विशेषतः ॥ १ ॥ अथ तेषां दाक्षिण्यरहितानां यद्भवति तदाह
कार्याकार्ययोर्नास्ति दाक्षिण्यं वार्द्धषिकानाम् ॥ २४ ॥ टीका - नास्ति न विद्यते, किं तत् ? दाक्षिण्यं लज्जास्पदं, कयोर्विषये ? कृत्याकृत्ययोः । यदि तदर्थं कृत्यं वस्तु क्रियते उपकारलक्षणं तदपि
१ प्रतापवति कण्टकशोधनाधिकरणज्ञे राज्ञि न प्रभवन्ति इति पाठो मुद्रितपुस्तके | २ तेषु सर्वे अन्यायवृद्धयो वार्द्धषिकास्तंत्रं कोशं देशं च विनाशयन्ति इति सूत्रं मुद्रितपुस्तके |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org