SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ - ~ - वार्तासमुद्देशः । स्पर्धया विहितो मूल्यो भाण्डस्याप्यधिकं च यत् । मूल्यं भवति तद्राशो विक्रेतुर्वर्धमानकम् ॥१॥ अथाल्पमूल्येन भाण्डं गृह्णतो यद्भवति तदाह अल्पद्रव्येण महाभाण्डं गृह्णतो मूल्याविनाशेन तद्भांड राज्ञः ॥ १९ ॥ टीका-महाभांडमुत्तमं वस्तु चौराद्यैर्मुग्धैर्वा स्वल्पमूल्येन यहत्तं तद्भांडं भूपस्य भवति परं यन्मूल्यं केनचिद्दत्तं तस्याविनाशः, कोऽर्थ ? तत्तस्य देयमित्यर्थः । तथा च नारदः भाण्डं चौरादिभिर्दत्तं मुग्धैाल्पधनेन यत् । तद्भाण्डं भूपतेः कृत्स्नं गृहीतुर्मूल्यमेव च ॥१॥ अथान्यायमुपेक्षमाणस्य नृपतेर्यद्भवति तदाहअन्यायोपेक्षा सर्व विनाशयति ॥ २० ॥ टीका.-यो राजान्यायान् वर्तमानान् उपेक्षतेऽन्यायकारिणां निग्रह न करोति तस्य सर्व राज्यं विनश्यति । तथा च शुक्रः अन्यायान् भूमिपो यत्र न निषेधयति क्षमी। तस्य राज्यं क्षयं याति यद्यपि स्यात् क्रमागतम् ॥१॥ अथ राष्ट्रस्य ये शत्रवो भवन्ति तानाह---- चौरचरटमन्नपधमनराजवल्लभाटविकतलाराक्षशालिकनियोगिग्रामकूटवार्द्धषिका हि राष्ट्रस्य कण्टकाः ॥ २१ ॥ टीका-चौराः प्रसिद्धाः, चरटा ये भूभुजा निःसारिताः, मनपा मापकारकाः, धमना ग्राहकभांडपतेर्मूल्यं निर्णयकारकाः, राजवल्लभाः प्रसिद्धाः, आटविका अरण्यनिवासिनः, तलाराः स्थानरक्षायां नियोजिताः, अक्षशालिकाः कटकशालिकाः नियोगिका राजाधिकारिकाः, ग्रामकूटा १ तलारकिराताक्ष० इति पाठान्तरम् । Jain Education International For Private & Personal Use Only . www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy