SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ९८ नीतिवाक्यामृते -awaran प्रवेशो देशान्तराजातो न वेति एषा देशकालापेक्षया अनया वाऱ्यासाम्यता। अथ पण्यतुलामानविषये वणिग्जनस्य भूभुजा यत् कृत्यं तदाहपण्यतुलामानवृद्धौ राजा स्वयं जागृयात् ॥ १६ ॥ टाका-पण्यशब्देन भांडविषयेन कथ्यते (१) । तत्र वणिजो वि. कृतिं कुर्वन्ति स्वल्पमूल्ये तत्सदृशं भांडं मिश्रतां नयंति । तथा तुलाद्वयं कुर्वन्ति मानद्वयं च तत्सर्व राज्ञा तेषां बोद्धव्यं । तथा च शुक्रः भाण्डसंगात्तुलामानाद्धीनाधिक्याद्वणिग्जनाः। वंचयन्ति जनं मुग्धं तद्विज्ञेयं महीभुजा ॥१॥ अथ भूभुजा वणिग्जनस्य यतः सावधानो न भवितव्यं तदर्थमाहन वणिग्भ्यः सन्ति परे पश्यतो हराः ॥ १७ ॥ टीका-वणिग्भ्यः किराटेभ्यः परे अन्ये न सन्ति न विद्यन्ते, के ते? पश्यतो हराश्चौराः । ये सत्यचौरा भवन्ति ते परोक्षं हरन्ति एते पुनः किराटाश्चौराः प्रत्यक्षं प्रेक्षमाणस्य कूटमानतुलामिथ्याक्रियादिभिर्हरन्ति । तथा च वल्लभो देवः मानेन किंचिन्मुल्येन किंचि त्तुलयापि किंचित्कलयापि किंचित् । किंचिञ्च किंचिच्च गृहीतुकामाः प्रत्यक्षचौरा वणिजो नराणाम् ॥ १॥ अथ स्पर्धया परस्परं यत्र किराटा मूल्यवृद्धिं कुर्वन्ति तदाहस्पर्धया मूल्यवृद्धिभौडेषु राज्ञो यथोचितं मूल्यं विक्रेतुः॥१८॥ टीका-यत्र भाण्डे विक्रयार्थमागता वणिग्जनाः स्पर्धयाधिक मूल्यं कुर्वन्ति तत्र प्रसिद्धमूल्यादप्यधिकं भवति तद्भूपतेः प्रसिद्धमूल्यं च विक्रेतुः । तथा च हारीत: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy