SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ वार्तासमुद्देशः । ९७ त्कारणार्थहानिः क्रियते राजपुरुषैस्तत्र भाण्डविक्रेता भूयो न स आग च्छति । तथा च शुक्रः -- शुल्कवृद्धिर्भवेद्यत्र बलान्मूल्यं निपात्यते । स्वप्नेऽपि तत्र न स्थाने प्रविशेद् भाण्डविक्रयी ॥ १ ॥ अथ स्थाने व्यवहारदूषणं यथा भवति तदाहतुलामानयोरव्यवस्था व्यवहारं दूषयति ॥ १३॥ टीका तुला प्रसिद्धा, मानं कुण्डवादि तयोरव्यवस्था अयथोचितकरणं, गुरुलघुत्वेन यत्र वाणिज्यं करोति तत्र व्यवहारः साधूनां नश्यति । तथा च वर्ग: गुरुत्वं च लघुत्वं च तुलामानसमुद्भवम् । द्विप्रकारं भवेद्यत्र वाणिज्यं तत्र नो भवेत् ॥ १ ॥ अथ वणिग्जनकृतस्यार्थस्य यद्भवति तदाहवणिग्जनकृतोऽर्थः स्थितानागन्तुकांश्च पीडयति ॥ १४ ॥ टीका --- स्थितान् तत्स्थाननिवासिनः आगन्तुकान् यतोभ्यागतान् सर्वान् पीडयति निर्धनान् करोति । कोऽसौ ? अर्थः । किंविशिष्टः ! वणिजनकृतः । यद्येवं तर्हि किं क्रियते देशकालभांडापेक्षया नृपपंचकुलकृतोऽत्रस्थानामागन्तुकानां निरपवादो भवति । तथा च हारीत: वणिग्जनकृतो योऽर्थोऽनुज्ञातश्च नियोगिभिः । भूपस्य पीडयेत्सोऽत्र तत्स्थानागन्तुकानपि ॥ १ ॥ अथ अर्थविषये नियममाह - - देशकाल भांडापेक्षया यो वाऽर्थो भवेत् ।। १५ ।। टीका - देशापेक्षया तत्र देशे तस्य भाण्डस्योत्पत्तिर्जाता न वेति, कालशब्देनात्र समयः कथ्यते स ज्ञेयः, अत्र समये चास्य भाण्डस्य नीति 910 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy