SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते टीका -- वृद्धाननाथान्, बालान् मातृपितृविहीनान् व्याधिग्रस्तानशरणान् तथा क्षीणान् दुर्बलान् पशून् दृष्ट्वा सुबान्धवानिव पोषयेत् स्वर्गार्थं । तथा च व्यासः अनाथान् विकलान् दीनान् क्षुत्परीतान् पशूनपि । दयावान् पोषयेद्यस्तु स स्वर्गे मोदते चिरम् ॥ १ ॥ अथ पशूनामकालमरणं यथा भवति तदाह अतिभारो महान् मार्गश्च पशुनामकाले मरणकारणम् ॥१०॥ टीका-पशूनां वृषाश्वगजानां योऽसौ प्रभूतो भारः प्रभूतमार्गगमनं च अकालेऽप्रस्तावेऽवेलायां तेषां मृत्युकारणं मृत्युसमयः । तथा च हारीत: • ९६ अतिभारो महान् मार्गः पशूनां मृत्युकारणं । तस्मादर्हभावेन मार्गेणापि प्रयोजयेत् ॥ १ ॥ - अथ देशान्तराद्भाण्डानि यथा नागच्छन्ति तदाह-शुल्कवृद्धिर्बलात्पण्यग्रहणं च देशान्तरभाण्डानामप्रवेशे हेतुः ॥ ११ ॥ टीका --यत्र स्थाने शुल्कवृद्धिः प्रभूतदानग्रहणं तथा च बलात्कारेणाल्पमूल्यं दत्वा भांडं गृद्यते तत्र भाण्डं देशान्तरान्न प्रविशति । तथा च शुक्रः - यत्र गृह्णन्ति शुल्कानि पुरुषा भूपयोजिताः । अर्थहानिं च कुर्वन्ति तत्र नायाति विक्रयां ॥ १ ॥ भूयोऽपि भाण्डं नागच्छति तन्निदर्शनमाहकाष्ठपात्र्यामेकदैव पदार्थो रध्यते ॥ १२ ॥ टीका -- काष्ठपात्री काष्ठदण्डिका या भवति तस्यामेकः पदार्थों रव्यंते न द्वितीयः । एवं यत्र स्थानेऽधिकं शुल्कं गृह्यते । तथा बला Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy