________________
वार्तासमुद्देशः।
९५
दुर्भिक्षेऽपि समुत्पन्ने यत्र राजा प्रयच्छति ।
निजायेण निजं सस्यं तदा लोको न पीडयते ॥१॥ अथ राज्ञोऽर्थतुष्टेर्यद्भवति तदाहसमुद्रस्य पिपासायां कुतो जगति जलानि ॥ ७॥ टीका---एतत् किल श्रूयते समुन्द्रे नवनदीशतैः सह गंगा प्रविशति तथा सिन्धुश्च । एवं सोऽष्टादशभिः शतैर्नदीनां गतपिपासो न भवति यदा तु तस्याभ्यधिका तृड् भवति तदा कुतोऽन्यानि (अन्यत्र ) जलानि विद्यन्ते तदर्थ । एवं राजापि यदा तु षड्भागाभ्यधिको तुष्टिं करोति तदा कुतो राष्ट्र वित्तानि तदोषेण राष्ट्र प्रणश्यति ततो राज्यं च । तथा च शुक्रः----
षड्भागाभ्यधिको दण्डो यस्य राज्ञः प्रतुष्टये।
तस्य राष्ट्र क्षयं याति राज्यं च तदनन्तरम् ॥१॥ अथ राज्ञः स्वयं जीवधनमपश्यतो यद्भवति तदाह
खयं जीवधनमपश्यतो महती हानिर्मनस्तापश्च क्षुत्पिपासाप्रतीकारात्पापं च ॥ ८॥
टीका--जीवधनशब्देन गोमहिष्यादिकं कथ्यते । तत्स्वयमपश्यतः स्वामिनो महती हानिर्भवति तथा मृतैमनस्तापो भवति तेषां बुभुक्षापिपासाप्रतीकारात् तस्य पापं भवति ततः स्वामिना जीवधनं स्वयं निरीक्षणीयं । तथा च शुक्रः
चतुष्पदादिकं सर्व स स्वयं यो न पश्यति ।
तस्य तन्नाशमभ्यति ततः पापमवाप्नुयात् ॥१॥ अथ स्वामिना यत्कर्तव्यं तदाहवृद्धवालव्याधितक्षीणान् पशुन् बान्धवानिव पोषयेत् ॥९॥
१'जैनमतानुसारेण तु चतुर्दशनदीसहस्रैः' इति । २ क्षुषां इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org