SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते अथ विसाध्यराज्ञो यद्भवति तदाहविसाध्यराज्ञस्तंत्र पोषणे नियोगिनामुत्सवो महान् कोश क्षयः ॥ ४ ॥ टीका - यो राजा तंत्रपोषणे नित्यं विसाधनं करोति तस्य नियोगिनां कर्माधिष्ठितानां महानुत्सवं वृद्धापनकं भवति यतस्ते वित्तं भक्षयन्ति तस्य राज्ञः पुनः कोशक्षयो भवति । तथा च नारदः - ग्रीष्मे शरदि यो नान्नं संगृह्णाति महीपतिः । नित्यं मूल्येन गृह्णाति तस्य कोशक्षयो भवेत् ॥ १ ॥ अथ तस्य भूपतेर्नित्यं व्ययेनागतिं विना यथा कोशक्षयो भवति तदाह नित्यं हिरण्यव्ययेन मेरुरपि क्षीयते ॥ ५॥ टीका — यो नित्यं व्ययं करोति न किंचिदुपार्जयति तस्य सुमहानपि कोशः शनैः शनैः क्षयं याति । आस्तां तावत्कोशो मेरुरपि नित्यं हिरण्यव्ययेन स्वल्पेनापि क्षयं याति तस्मादायानुरूपो व्ययः कार्यः । तथा च शुक्रः ९४ - आगमे यस्य चत्वारि निर्गमे सार्धपंचमः । स दरिद्रत्वमाप्नोति वित्तेशोऽपि स्वयं यदि ॥ १ ॥ अथ राज्ञो विसार्धनव्ययस्य यद्भवति तदाह तत्र सदैव दुर्भिक्षं यत्र राजा विसार्धयति ॥ ६ ॥ टीका --यत्र राजा नित्यमेवान्नं विसाधयति तत्र सदैव दुर्भिक्षं यतः प्रभूतेनान्नेन तत्र पोषणं भवति ततो दुर्भिक्षं जायते तस्माद्भूभुजा प्रभूतो धान्यसंग्रहः कार्यः । तथा च नारदः Jain Education International ➖➖ १ धान्य संग्रहमकृत्वाधिकव्ययकर्तुः । २ धान्यसंग्रहं न करोति आगतेरधिकं व्ययति । For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy