SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ८ वार्ता- समुद्देशः । कु अथ वार्तासमुद्देशो लिख्यते तत्रादावेव वार्तास्वरूपमाह-कृषिः पशुपालनं वणिज्या च वार्ता वैश्यानाम् ॥ १ ॥ टीका — यत्कृषिकर्म तथा पशुपालनं च वणिज्या च वणिक्क्रिया सा वार्ता कथ्यते । गतार्थमेतत् । अथ वार्तायां वृद्धिं गतायां राज्ञो देशे यद्भवति तदाहवार्तासमृद्धौ सर्वाः समृद्धयो राज्ञः ॥ २ ॥ टीका — यत्र राष्ट्रे कृषिकर्म प्रवर्तते शारदग्रैष्मिकं तथा पशवः चतुष्पादाद्याः पुष्टिं यान्ति न चौरादिभिः ह्रियन्ते । तथा वणिजां व्यवहारो विघ्नरहितः प्रवर्तते तत्र भूपतेर्हस्त्यश्वहिरण्यादिकमसंख्यं भवति तत्प्रभावात्सर्वाः समृद्धयो धर्मार्थकामलक्षणा भवन्ति । तथा च शुक्रः —— कृषिद्वयं वणिज्याश्च यस्य राष्ट्रे भवन्त्यमी । धर्मार्थकामा भूपस्य तस्य स्युः संख्यया विना ॥ ३ ॥ अथ गृहस्थस्य संसारसुखं यथा भवति तथाह - तस्य खलु संसारसुखं यस्य कृषिर्धेनवः शाकवाटः सद्मन्युदपानं च ॥ ३ ॥ टीका- - तस्य गृहस्थस्य खलु निश्वयेन सुखं भवति । यस्य किं, यस्य गृहे सदैव कृषिकर्म क्रियते तथा धेनवो महिष्यो भवन्ति शाकवाटो व्यञ्जनार्थं भवति तथा उदपानं कूपिका स्यात् । तथा च शुक्रःकृषिगोशाकवाटाश्च जलाश्रय समन्विताः । गृहे यस्य भवन्त्येते स्वर्गलोकेन तस्य किम् ॥ १ ॥ १ राज्ञामिति पाठान्तरम् । Jain Education International 1 For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy