SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते पूर्णा पूर्णमाने परिचितजनक्रयो मिथ्या । वणिग्जनो विकाटीशः कुरुते नात्र संदेहः ॥ २ ॥ निक्षेपे गृहपतिते श्रेष्ठी स्तीतीष्टदेवतां नित्यं । निक्षेपोऽसौ म्रियते तुभ्यं दास्यामि चाभीष्टं ॥ ३ ॥ गोष्टिककर्मणि युक्तः श्रेष्ठी चिन्तयति चेतसा हृष्टः । वसुधा वसुसम्पूर्णा मयाच लब्धा किमन्येन ॥ ४ ॥ पण्यानां गांधिकं पण्यं किमन्यैः काञ्चनादिभिः । श्रेष्ठी प्रोवाच पुत्राणां यत्रैकेन शते भवेत् ॥ ५ ॥ अथ वैश्यानां यथा कोपोपशमो भवति तथाह-वैश्यानां समुद्धारक प्रदानेन कोपोपशमः ॥ ४० ॥ टीका — वैश्यानां कर्षकाणां उद्धारकदानं कोपोपशमाय । तथा च भृगुः ९२ ▬▬▬▬▬▬▬▬▬▬▬ अपि चेत्रिको वैरो विशां कोपं प्रजायते । उद्धारकप्रलाभेन निःशेषो विलयं व्रजेत् ॥ १ ॥ अथ नीचजात्यानां यथा कोपोपशमो भवति तदाहदण्डभयोपधिभिर्वशीकरणं नीचजात्यानाम् ॥ ४१ ॥ टीका नीचजात्यानां चातुर्वण्यधः स्थितानां रजकादीनां कोपो पशमाय, किं ? वशीकरणं दण्डभयं रौद्रभयं । तथा च गर्गः -- --- सर्वेषां नीचजात्यानां यावन्नो दर्शयेद्भयं । तावन्नो वशमायान्ति दर्शनीयं ततो भयम् ॥ १ ॥ इति त्रयीसमुद्देशः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy