SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ त्रयीसमुद्देशः। निसर्गतः शाठयं किरातानाम् ॥ ३३ ॥ ऋजुवक्रशीलता सहजा कृषीबलानाम् ॥ ३४ ॥ गतार्थमेतत् । अथ विप्रादीनां यथा कोपोपशमो भवति तथाह-- दानावसानः कोपो ब्राह्मणानाम् ।। ३५ ।। प्रणामावसानः कोपो गुरूणाम् ॥ ३६ ॥ प्राणावसानः कोपो क्षत्रियाणाम् ॥ ३७ ॥ प्रियवचनावसानः कोपो वणिग्जनानाम् ॥ ३८॥ विश्वस्तैः सह व्यवहारो वणिजां निधिः ॥ ३९ ॥ टीका--ब्राह्मणानां यः कोपः स दानावसानः प्रकुपितस्यापि विप्रस्य यदि भोजनाद्यं कोपार्ह किंचित्प्रदीयते तत्सद्यः कोपो विनश्यति । तथा च गर्गः-- सूर्योदये यथा नाशं तमः सद्यः प्रयात्यलम् । तथा दानेन लब्धस्य कोपो विप्रस्य गच्छति ॥१॥ दुजेने सुकृतं यद्वत्कृतं याति च संक्षयं । तद्वत्कोपो गुरूणां स प्रणामेन प्रणश्यति ॥२॥ उदुम्बरफलानां च यद्वद्वीजं प्रणश्यति । फलेन सहितं तद्वत्कोपो भूपस्य तत्समः ॥३॥ यथा प्रियेण दृष्टेन नश्यति व्याधिर्वियोगजः । प्रियालापेन तद्वद्वणिजां नश्यति ध्रुवं ॥४॥ विश्वस्तैर्मित्रवर्गश्च व्यवहारस्तु यो भवेत् । वणिजां स निधिः प्रोक्तः शुद्धहेममयो ग्रहः ॥ ५ ॥ तथा च वल्लभदेवः-- द्वे मानेऽभीष्टवाणिज्यं गांधिकं पण्यगोष्ठिकं । निक्षेपः क्रयमिथ्या च वणिजां निधयोऽत्र षट् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy