SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ९० नीतिवाक्यामृते अथ स्नातेन यत्कर्तव्यं तदाह- स्नात्वा प्राग्देवोपासनान्न कंचन स्पृशेत् ॥ २८ ॥ टीका - स्नानं कृत्वा गृहस्थेनाभीष्टं मुक्त्वा नान्यत्किचित्स्प्रष्टव्यं यतोऽनिष्टस्पर्शनात् श्रेयो नश्यति । तथा वर्ग: स्नात्वा त्वभ्यर्चयेद्देवान् वैश्वानरमतः परं । ततो दानं यथाशतया दत्वा भोजनमाचरेत् ॥ १ ॥ अथ देवाश्रयगतेन गृहस्थेन यत्कर्तव्यं तदाह- देवागारे गतः सर्वान् यतीनात्मसम्बन्धिनीर्जरती: पश्येत् ॥ २९ ॥ टीका - देवागारं देवायतनं तत्र गतो गृहस्थस्तत्रस्थान् सर्वान् यतीस्तापसान् पश्येत् प्रणमेदित्यर्थः । आत्मसम्बन्धिनीर्या जरतीवृद्धायस्ताः प्रणमेत् । तथा च हारीत: देवायतने गत्वा सर्वान् पश्येत् स्वभक्तितः । तत्राश्रितान् यतीन् पश्चात्ततो वृद्धाः कुलस्त्रियः ॥ १ ॥ देवाकारोपेतः पाषाणोऽपि नावमन्येत तत्किं पुनर्मनुष्येः, राजशासनस्य मृत्तिकायामिव लिंगिषु को नाम विचारो यतः स्वयं मलिनो खलः प्रवर्धयत्येव क्षीरं धेनूनां न खलु परेषामाचारः स्वस्य पुण्यमारभते किन्तु मनोविशुद्धिः ॥ ३० ॥ गतार्थमेतत् । अथ विप्रादीनां स्वभावमाह दीना प्रकृतिः प्रायेण ब्राह्मणानाम् ॥ ३१ ॥ बलात्कारस्वभावः क्षत्रियाणाम् ।। ३२ ।। १ यतः देवाकारं प्रापितः पाषाणोऽपि नावमन्यते जनैः इति शेषः किं पुनर्मनुष्यो अवमन्तव्य इति वक्तव्यमपि तु नेत्यर्थः । २ राजाज्ञायाः मृत्तिकायामिव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy