SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ त्रयीसमुद्देशः । अथ भूपतेस्तपस्विधर्मषड्भागेन गृहीतेन यद्भवति तदाहतस्यैतद्भूयाद् योऽस्मान् रक्षति ॥ २५ ॥ टीका ---तस्य भूपतेः श्रेयसः षड्भागो भूयात् योऽस्मान् रक्षति यतस्ते मुनयः क्रियावसाने एवं वदन्ति तस्य एतदस्य मदीयस्य षड्भागः स्यात् धर्मस्य योऽस्मान् रक्षति । एवं तस्मिन् तैः शिलोञ्छवृत्तिषड्भागः प्रदत्तो भवति । तथा च हारीत: मुनीनां वनसंस्थानां फलमूलाशिनामपि षड्भागस्तपसस्तेषां राजा प्राप्नोति रक्षणात् ॥ १ ॥ अथ मंगला मंगलविषये निश्चयमाहतदमंगलमपि नामंगलं यत्रास्यात्मनो भक्तिः ॥ २६ ॥ टीका - तदमंगलमपि अनिष्टमपि मंगलं शुभप्रदमिति यतः श्रावकाणां क्षेपणकदर्शनं श्वेतपटावलोकनं च कार्यारम्भेषु शुभावहमन्येषाममंगलं । एवं अन्येऽपि पदार्थाः काणखंजादयो ज्ञेयाः, तथा यदि प्रियतमा भवन्ति तद्दोषाय न भवन्ति । तथा च भागुरि: यद्यस्य वल्लभं वस्तु तच्चेदग्रे प्रयास्यति । कृत्यारम्भेषु तत्तस्य सुनिन्द्यमपि सिद्धिदं ॥ १ ॥ अथ यत्पुरुषेण कर्तव्यं तदाह संन्यस्ताग्निपरिग्रहानुपासीत ॥ २७ ॥ टीका संन्यस्ता यतयोऽग्निपरिग्रहा याज्ञिकास्तानुपासीत सेवेत, कस्मात् यतस्ते परिणतबुद्धयो भवन्ति पारत्रिकोपदेशं प्रयच्छंति । अन्ये तु पुनः सेविताः स्वचेष्टिताभिप्रायान् वदन्ति । तथा च वल्लभदेवः -- यादक्षीणां शृणोत्यत्र यदृक्षांश्चावसेवते । तादृक्चेष्टो भवेन्मर्त्यस्तस्मात् साधून् समाश्रयेत् ॥ १ ॥ १ मिथ्येयं वाख्या | २ यादृक्षार्थं इति सुष्ठ दृश्यते । - Jain Education International ८९ For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy