SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ८८ नीतिवाक्यामृते अथ स्वधर्ममतिक्रामतां पार्थिवो गुरुरित्याह स्वधर्ममतिकामतां सर्वेषां पार्थिवो गुरुः ॥ २२ ॥ टीका-स्वधर्ममतिकामतां परित्यजतां सर्वेषां वर्णाश्रमाणां पार्थिवो गुरू राजा निषेधयिता यथोचितधर्मेण । तथा च भगु:---- उन्मत्तं यथा नाम महामन्तो निवारयेत् । उन्मार्गेण प्रगच्छन्तं तद्वचैव जनं नृपः ॥ १॥ अथ पार्थिवस्य धर्म परिपालयतो यद्भवति तदाहपरिपालको हि राजा सर्वेषां धर्मषष्ठांशमवाप्नोति ॥ २३ ॥ टीका-यो राजा धर्मविप्लवं रक्षति स सर्वेषां वर्णाश्रमाणां धर्मस्य षष्ठांशं प्राप्नोति । तथा च मनु:-- वर्णाश्रमाणां यो धर्म नश्यन्तं च प्ररक्षति । षष्ठांशं तस्य धर्मस्य स प्राप्नोति न संशयः ॥ १॥ अथ भूयोऽपि राज्ञः परिपालनविषयं प्राह-- उञ्छपड्डागप्रदानेन तपस्विनोऽपि राजानं संभावयन्ति ।२४। टीका-ये तपस्विनो वनवासिनो भवन्ति शिलोञ्छवृत्त्या जीवन्ति तेऽपि षड्भागं भूपतेः प्रयच्छन्ति, कस्मात् ? यतस्तेऽपि शिलोञ्छवृत्ति कुर्वाणाः सूक्ष्मजीवानां स्वेदजानां वधं कुर्वन्ति ततः षड्भागं स्वधर्मस्य भूपतेः प्रयच्छन्ति तेन च तेषां स दोषो न भवति एवं तेषां षडागप्रदानं तेन भूपते रक्षा भवति । तथा च पाराशरः षड्भागं योऽत्र गृह्णाति कर्षकीणां तपस्विनाम् । तान्न पालयते यश्च स तेषां पापभाग्भवेत् ॥ १॥ १ गजं । २ हस्तिपकः ( महावतेति ) ३ “उञ्छ कणशआदाने' पर्वतार• ण्यादिषु प्रतिनियतस्वामिकातिरिक्तेषु भूभागेषु गृहीतसस्येषु क्षेत्रेषु अप्रतिहतावकाशेषु यत्र यत्र कणोपलब्धिः स्यात्तत्र तत्र कणशसमुच्चयनं उञ्छस्तस्य षडागप्रदानेन । ४ वर्धयन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy