________________
त्रयीसमुद्देशः।
अभत्त्या पूजितो देवस्तत्क्षणे विघ्नमाचरेत् ।।
तस्माच्छ्रद्धासमोपेतैः पूज्यो भक्त्या......॥१॥ अथ सर्वाश्रमवर्णानां यद्भक्त्या प्रायश्चित्तविशुद्धिर्भवति तदाहवर्णाश्रमाणां स्वाचारप्रच्यवने त्रयीतो विशुद्धिः ॥ १९ ॥
टीका-वर्णा बाह्मणक्षत्रियविट्छूद्राः, आश्रमा ब्रह्मचारिगृहस्थवानप्रस्थयतयस्तेषांमेकतमस्यापि प्रच्यवने ज्यात्यादिकविनाशे जाते त्रयीतो वेदत्रयोक्तवचनात् विशुद्धिर्भवति वेदोक्तप्रायश्चित्ते कृते। तथा च चारायणः
वर्णाश्रमाणां नाशे तु जाते जातिपूर्वके।
वेदत्रयोक्तवाक्येन तेषां शुद्धिः प्रजायते ॥१॥ अथ प्रजानां भूपतेश्च त्रिवर्गप्राप्तिर्यथा भवति तथाहखधर्मासंकरः प्रजानां राजानं त्रिवर्गेणोपसन्धत्ते ॥२०॥ टीका-असंकरोऽविप्लवः, केषां ? स्वधर्माणां । कासां ? प्रजानां । उपसन्धत्ते नियोजयति । कं? राजानं । केन त्रिवर्गेण धर्मार्थकामशब्देन । तथा च नारदः
न भूयाद्यत्र देशे तु प्रजानां वर्णसंकरः।।
तत्र धर्मार्थकामं च भूपतेः सम्प्रजायते ॥१॥ अथ राज्ञो राजत्वं यथा न भवति तदाह__ स कि राजा यो न रक्षति प्रजाः ॥ २१ ॥
टीका-स किं राजा कुत्सितो राजा, स किंविशिष्टः स्यात् ? यो न रक्षति पालयति काः प्रजा लोकान् । तथा च व्यास:----
यो न राजा प्रजाः सम्यग्भोगासक्तः प्ररक्षति ।
स राजा नैव राजा स्यात् स च कापुरुषः स्मृतः॥१॥ १ स्वधर्मशास्त्रोक्तप्रायश्चित्तविधानेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org