SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ८६ नीतिवाक्यामृते यस्य वर्णस्य यत्प्रोक्तमनुष्ठानं महर्षिभिः। तत्कर्तव्यं विशेषोऽयं तुल्यधर्मो न केवलं ॥१॥ अथ यतीनां यः स्वो धर्मस्तमाहनिजागमोक्तमनुष्ठानं यतीनां स्वो धर्मः ॥१५॥ टीका-यतीनां लिङ्गिनां निजागमोक्तमनुष्ठानं कृत्यं यत्स धर्मः आत्मीय इति । तथा च चारायणः स्वागमोक्तमनुष्ठानं यत्स धर्मो निजः स्मृतः। लिङ्गिन्नामेव सर्वेषां योऽन्यः सोऽधर्मलक्षणः ॥१॥ अथ यतीनां परमागमानुष्ठानेन यद्भवति तदाह--- स्वधर्मव्यतिक्रमेण यतीनां स्वागमोक्तं प्रायश्चित्तम् ॥१६॥ टीका--निजदर्शनव्यतिक्रमेण धर्मविलोमतया सर्वेषां लिङ्गिनामात्मीयागमे यदुक्तं प्रायश्चित्तं भवति । तथा च वर्ग:-- स्वदर्शनविरोधेन यो धर्माधर्ममाचरेत् । स्वागमोक्तं भवेत्तस्य प्रायश्चित्तं विशुद्धये ॥१॥ अथाभीष्टदेवप्रतिष्ठापनमाहयो यस्य देवस्य भवेच्छ्रद्धावान् स तं देवं प्रतिष्ठापयेत् ॥१७॥ टीका-यः पुरुषो यस्य देवस्य श्रद्धावान् स तं देवं प्रतिष्ठापयेत् । तथा च भागुरिः यस्योपरि भवेद्भक्तिर्विबुधस्य नृणामिह । स देवस्तैः प्रतिष्ठाप्यो नान्यः स्याच्छेयसे यतः ॥१॥ अथाभक्त्या पूजितो देवो यत्करोति तदाह-- अभक्त्या पूजोपचारः सद्यः शापाय ॥ १८ ॥ टीका-भाक्तं विना कृतोपचारः कृतपूजितविधानो देवः सद्यः तत्क्षणात् शापायानिष्टप्रदो भवति । तथा च बादरायणः Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy