________________
त्रयीसमुद्देशः ।
८५
स शुचिर्निर्मल:, तथा शरीरशुद्धिर्यस्य प्रायश्चित्तेन कृतात् । एषापि शूद्रं करोति, किंविशिष्टं ? देवद्विजतपस्त्रिभक्तियोग्यं । तथा च
चारायण:
गृहपात्राणि शुद्धानि व्यवहारः सुनिर्मलः । कायशुद्धिः करोत्येव योग्यं देवादिपूजने ॥ १ ॥ अथ सर्वेषां वर्णानां यः समानो धर्मस्तमाह
आनृशंस्यममृषाभाषित्वं परस्वनिवृत्तिरिच्छा नियमः प्रतिलोमाविवाहो निषिद्धासु च स्त्रीषु ब्रह्मचर्यमिति सर्वेषां समानो धर्मः ॥ १३ ॥
टीका --- आनृशंस्यमक्रूरत्वं, अमृषाभाषित्वं सत्यवादिता, परस्वनिवृत्तिरन्यायेन परार्थग्रहणं, इच्छानियमः स्वेच्छाप्रवृत्तित्रतं, प्रतिलोमाविवाहः स्वजातिसम्बन्धः, निषिद्धासु च स्त्रीष्वसतीषु विषये ब्रह्मचर्यमिति समानस्तुल्यो धर्मः सर्वेषां वर्णानां । तथा च भागुरि:
दयां सत्यमचौर्ये च नियमः स्वविवाहकम् । असतीवर्जनं कार्य धर्मैः सर्वैः रितौरतां ? ॥ १ ॥
अथ भूयोऽपि तुल्यधर्मे कृते विशेषमाहआदित्यावलोकनवत् धर्मः खलु सर्वसाधारणो विशेषानुष्ठाने तु नियमः ॥ १४ ॥
टीका-य एव पूर्वोक्तः सर्वेषां वर्णानां तुल्यो धर्मः सर्वसाधारणस्तुल्यो निश्चयेन । कथं ? आदित्यावलोकन त् यथा आदित्यः सर्वै विप्रान्त्यजैरपि दृश्यते, तथैष धर्मः सर्वैरपि कार्यः । तथा विशेषानुष्ठाने तु नियमः परं विशेषानुष्ठानं यद्वर्णानां तत्र नियमः । तत्र कार्य पूर्वैरात्मीयमनुष्ठानं यदुक्तं तत्कार्यमन्यत् । तथा च नारदः ---
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org