SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते जलदानं, पुण्यं धर्मक्रिया, आरामः पुष्पादिसंजनना एतेषां धर्माणां करणं । तथा च शुक्रः कृषिकर्म गवीरक्षा यज्ञाद्यं दम्भवर्जितम् । पुण्यानि सत्रपूर्वाणि वैश्यवृत्तिरुदाहृता ॥१॥ अथ शूद्रकर्माण्याह.. त्रिवर्णोपजीवनं कारुकुशीलवकर्म पुण्यपुटवाहनं च शूद्रोणां ॥ १० ॥ ____टीका-त्रिवर्णा ब्राह्मणक्षत्रियविशस्तेषामुपजीवनं शुश्रूषा । कारुशब्देन नीचतमाः प्रजाः कथ्यन्ते तेषां कर्म । कुशीलवा नर्तकादयश्वारणास्तेषां कर्म कार्य । तथा पुण्यपुटवाहनं पुण्यपुटका भिक्षुकास्तेषामुपसेवनं शूद्रैः कार्यम् । तथा च पाराशरः वर्णत्रयस्य शुश्रूषा नीचचारणकर्म च । भिक्षूणां सेवनं पुण्यं शूद्राणां न विरुद्धयते ॥१॥ अथ शूद्रा यादृशा भवन्ति तदाहसकृत्परिणयनव्यवहाराः सच्छूद्राः ॥ ११ ॥ टीका-ये सच्छूद्राः शोभनशूद्रा भवन्ति ते सकृत्परिणयना एकवारं कृतविवाहाः, द्वितीयं न कुर्वन्तीत्यर्थः । तथा च हारीतः द्विभार्यो योऽत्र शूद्रः स्यादृषलः स हि विश्रुतः । महत्वं तस्य नो भावि शूद्रजातिसमुद्भवः ? ॥ १ ॥ अथ शूद्रोऽपि देवद्विजादीनां शुश्रूषाया योग्यो यथा भवति तथाहआचारानवद्यत्वं शुचिरुपस्करः शारीरी च विशुद्धिः करोति शूद्रमपि देवद्विजतपस्विपरिकर्मसु योग्यम् ॥ १२ ॥ टीका-यः शूद्रोऽपि स देवद्विजतपस्विशुश्रूषायोग्यः, यस्य किं शूद्रस्याचारानवद्यत्वं व्यवहारनिर्वाच्यता, तथोपस्करो गृहपात्रसमुदायः ४ कारु-कुशीलव-कर्म शकटोपवाहनं च शूदाणामिति सूत्रं मुद्रित-पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy