SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ त्रयीसमुद्देशः। अथ ब्राह्मणक्षत्रियवैश्यबाह्यं केवलं ब्राह्मणानां यत् भवति तदाहअध्यापनं याजनं प्रतिग्रहो ब्राह्मणानामेव ॥७॥ टीका-ब्राह्मणानामयं विशेषो यदध्यापनं कुर्वन्ति तथा याजनं यजमानानां तथा च प्रतिग्रहमपि, एतत् कर्मत्रयं न क्षत्रियवैश्यानां, ब्राह्मणस्य षटर्माणि । तथा च हारीत: यजनं याजनं चैव पठनं पाठनं तथा । दानं प्रतिग्रहोपेतं षट्कर्माणि द्विजन्मनां ॥१॥ अथ क्षत्रियाणां यत्कर्म भवति तदाह भूतसंरक्षणं शस्त्राजीवनं सत्पुरुषोपकारो दीनोद्धरणं रणेऽपलायनं चेति क्षत्रियाणाम् ॥ ८॥ ( भूतानां प्राणिनां संरक्षणं, शस्त्रेणाजीवनं, सत्पुरुषाणां सजनानां उपकारः ) दीना अन्धपंगुरोगिपूर्वकास्तेषामुद्धरणं निर्वाहणं यथा भवति तथा कार्यमितिक्षत्रियाणां धर्मः । तथा च पाराशरः क्षत्रियण मृगाः पाल्याः शस्त्रहस्तेन नित्यशः। अनाथोद्धरणं कार्य साधूनां च प्रपूजनम् ॥१॥ अथ वैश्यधर्ममाह-- वार्ताजीवनमावेशिकपूजनं सत्रप्रपापुण्यारामदयादानादिनिपिणं च विशाम् ॥९॥ टीका-वैश्यानां तावद्वार्ताजीवनं वार्ताशब्देन कृषिकर्मपशुपालनपूर्वकं कर्म प्रोच्यते। तथावेशिकपूजनमकपटं यज्ञाद्यं । तथा सत्रप्रपापुण्यारामदयादानादिकर्माणि-सत्रं नित्यान्नदानं स्वशक्त्या, तथा प्रपा १ पण्यवार्ताजीवनं वैश्यानामित्येवं रूपं सूत्रं मुद्रित-पुस्तके। २ सर्वेषां 'प्राणिनां दुःखादिभ्यतामभयप्रदानं। ३ अन्नप्रदानस्थानं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy