SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते अथ स्मृतिवेदानां लक्षणमाह-- धर्मशास्त्राणि स्मृतयो वेदार्थसंग्रहाद्वेदा एव ॥ ४ ॥ टीका-यानि धर्मशास्त्राणि स्मृतयः प्रोच्यन्ते ताभिर्वेदार्थसंग्रहकार्यस्तस्मात्ता वेदा एव ज्ञातव्या एवं निश्चयः । तथा च गुरु: दुर्बोधांश्चरणान् ज्ञात्वा मन्दबुद्धिरेव यत् । तेषामर्थ समादाय मुनिभिः स्मृतयः कृताः॥१॥ अथ विप्रक्षत्रियवैश्यानां धर्मः प्रोच्यते__अध्ययनं यजनं दानं च विप्रक्षत्रियवैश्यानां समानो धर्मः ॥५॥ ___टीका--विप्रादीनां त्रयाणां वर्णानां अध्ययनं वेदानां यजनमग्निष्टोमादिकं, स्वशक्त्या दानं सामान्यं तुल्यं त्रिभिरपि कर्तव्यम् । तथा च हारीत: वेदाभ्यासस्तथा यज्ञाः स्वशक्या दानमेव च । विप्रक्षत्रियवैश्यानां धर्मः साधारणः स्मृतः ॥ १॥ अथ क्षत्रियवैश्यानामपि ब्राह्मण्यं यद्भवति तदाह - त्रयो वर्णा द्विजातयः ॥६॥ टीका—यत्क्षत्रियवैश्ययोरपि ब्राह्मण्यमुक्तं तत्पूर्वस्तत्रापेक्षया न तु जात्या, यदि पुनः क्षत्रियो वैश्यो वा ब्राह्मणो भवति तदा श्रुतिस्मृतीनाम प्रमाणता भवति तत्कथमुक्तमाचार्येण यतस्तेनैतदुक्तं अध्ययनं यजनं दानं ब्राह्मणक्षत्रियविशां समानो धर्मः, एतदर्थमुक्तं, स्वाध्यायो यजनं दानं विप्रवैश्यनराधिपैः कर्तव्यं ब्राह्मणेन तु याजनाध्यापनार्जनम् । १ ब्राह्मणं मुक्त्या टीका-पुस्तके पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy