SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ७ त्रयी-समुद्देशः । अथ त्रय्याः स्वरूपमाह-- चत्वारो वेदाः, शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिरिति षडङ्गानीतिहासपुराणमीमांसान्यायधर्मशास्त्रमिति चतुर्दशविद्यास्थानानि त्रयी ॥१॥ गतार्थमेतत् । अथ त्रयीतो यज्ज्ञायते तदाहत्रयीतः खलु वर्णाश्रमाणां धर्माधर्मव्यवस्था ॥२॥ टीका-त्रयीतः सकाशात् वर्णा ब्राह्मणक्षत्रियविट्छुद्राः, आश्रमा ब्रह्मचारिगृहस्थवानप्रस्थयतयस्तेषां ये आचारा व्यवहारा धर्माधर्मलक्षणास्तेषां या व्यवस्थितिः सा ज्ञायत इति । तथा च शुक्रः मन्वाद्याः स्मृतयो याश्च त्रय्यगन्ताः प्रकीर्तिताः । वर्णाश्रमाणामाचारस्तासु धर्माश्च केवलं ॥ १ ॥ अन्यदपि त्रयीतो यद्भवति तदाह खपक्षानुरागप्रवृत्त्या सर्वे समवायिनो लोकव्यवहारेष्वधिक्रियन्ते ॥३॥ ___टीका-यस्यास्त्रयीतः सकाशात् सर्वे समवायिनो लिङ्गिनः शैवबौद्धकौलनास्तिकाः स्वपक्षानुरागप्रवृत्त्या निजदर्शनभक्तिसेवनाल्लोकव्यवहारेष्वधिक्रियन्ते सम्बन्धानामागममनुभवन्ति ? नान्यं दर्शनधर्म कुर्वन्ति । तथा च गुरु: परदर्शनलिंगं च यत्र लिंगी समाश्रयेत्। देशे तत्र हि रोगाः स्युः स च संयाति रौरवम् ॥१॥ नीति०-६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy