________________
नीतिवाक्यामृते
प्रत्यूषे प्रोत्थिता वैद्याः कृतावश्यक सत्क्रियाः । वैद्यनाथं हृदि स्थाप्य श्लोकमेनं पठन्ति च ॥ १ ॥ वातपित्तादिका रोगा ये चाजीर्णसमुद्भवाः । ते सर्वे धनिनां सन्तु वैद्यनाथ तवाशया ॥ २॥ अथ राजा न यानि द्रव्याणि स्वयमुपयुञ्जीत तानि कथ्यन्तेदण्ड- द्यूत-मृत- विस्मृत-चौर-पारदारिक-प्रजाविप्लवजानि द्रव्याणि न राजा स्वयमुपयुञ्जीत ॥ ५ ॥
१०४
3
टीका - दण्डवित्तमपराधिजनोत्थं द्यूते जितं, तथा संग्रामे, मृतस्य तथा विस्मृतं यज्जानाति वित्तं तथा चौराद्यत्प्राप्तं, ( पारदारिकाद्यत्प्राप्तं ) तथा प्रजाविवात् परचक्रभयत्रासात् प्रजाभिः परित्यक्तं । ( अथ यदि ) तेषां द्रव्याणि न राजा स्वयं गृह्णीयात् यदि गृह्यन्ते तेन कस्मात्कारणात्, तदर्थमुच्यते तानि भूभुजा धर्मार्थ विप्रादीनां देयानि न च कोशे क्षेप्तव्यानि यतो दुष्प्रणीतानि द्रव्याणि सर्वाणि । तथा च शुक्रःदुष्प्रणीतानि द्रव्याणि कोशे क्षिपति यो नृपः । स याति धनं गृह्यगृहार्थखनिधिर्यथा ? ॥ १ ॥ अथ दुष्प्रणीतदण्डेन कोशक्षिप्तेन यद्भवति तदाहदुष्प्रणीतो हि दण्डः कामक्रोधाभ्यामज्ञानाद्वा सर्वविद्वेष करोति ।। ६ ।।
टीका --- तेषां पूर्वोक्तानां यो दण्डः स दुष्प्रणीत: पापदण्डः स स्वयं भुञ्जानस्य नृपतेर्विद्वेषं करोति सर्वनाशं करोति, अन्यस्यापि शुभा - जैतस्य । काभ्यां सकाशात् कामक्रोधाभ्यामज्ञानाद्वा मूर्खत्वाद्वा । तथा च शुक्रः-
1
१ सुतपत्यादिदायादाधिकारिरहितायाः स्त्रियाः धनं रक्षकहीनायाः कन्यायाश्च धनमिति मुद्रित पुस्तकेऽस्य टिप्पणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org