________________
दण्डनीतिसमुद्देशः ।
यथा कुमित्रसंगेन सर्वं शीलं विनश्यति । तथा पापोत्थदण्डेन मिश्रं नश्यति तद्धनं । ॥ १ ॥ किंचित्कामेन क्रोधेन किंचित्किंचिच्च जाड्यतः । तस्माद्दूरेण संत्याज्यं पापवित्तं कुमित्रवत् ॥ २ ॥ अथ दुष्प्रणीतदण्डभीतस्य राज्ञो राष्ट्रे यद्भवति तदाहअप्रणीतो दण्डो मात्स्यन्यायमुत्पादयति बलीयानबलं ग्रसति ( इति मात्स्यन्यायः ) ॥ ७ ॥
टीका - अप्रणीतोऽकृतोऽपराधिनां भूभुजा दण्डो ( मात्यस्यैन्यायमुत्पादयति बलीयां पुरुषोऽबलं निर्बलं ग्रसतीति मात्स्यनायः तस्मात् ) भूभुजा दण्डो ग्राह्यः परं कोशे न निक्षेप्तव्यः । तथा च गुरुः
----
१०५
दण्ड्यं दण्डयति नो यः पापदण्डसमन्वितः । तस्य राष्ट्रे न सन्देहो मात्स्यो न्यायः प्रकीर्तितः ॥ १ ॥ इति दण्डनीतिसमुद्देशः ।
Jain Education International
१ कंसस्थः पाठो मुद्रितपुस्तकात् संयोजितः । २ कंसस्थः पाठो नास्ति पुस्तके |
For Private & Personal Use Only
www.jainelibrary.org