SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १० मंत्रि-समुद्देशः। अथ मंत्रिसमुद्देश आरभ्यते । तत्रादावेव राजा यथा आहार्यबुद्धिर्भवति तदाह -- __ मंत्रिपुरोहितसेनापतीनां यो युक्तमुक्तं करोति स आहार्यबुद्धिः ॥१॥ टीका-यो राजा मंत्रिपुरोहितसेनापतीनां युक्तं धर्मार्थलक्षणं कथितं करोति स आहार्यबुद्धिः कथ्यते तस्माद्भूभुजा त्रयाणामप्येतेषां वचनं कार्य राज्यविवृद्धये । तथा च गुरु: यो राजा मंत्रिपूर्वाणां न करोति हितं वचः। स शीघ्रं नाशमायाति यथा दुर्योधंनो नृपः ॥१॥ अथ भूपतेर्महापुरुषवाक्यं कुर्वाणस्य यद्भवति तदाह असुगन्धमपि सूत्रं कुसुमसंयोगात् किनारोहति देवशिरसि ॥२॥ . ___टीका-यस्तेषां वाक्यं करोति सत्यं राजा प्रधानो बहुमतिः परं पाइगुण्यं चिन्तयमानस्य विलासासक्तचेतसो बुद्धिभ्रमो भवति अमात्यादीनां पुनस्तदेव तस्य राज्यं चिन्तयमानानां बुद्धिविकासो भवति तेन ते प्रष्टव्याः । तैः पृष्टे विभ्रमयुक्तापि मतिः तबुद्धिः मिश्रा सती योग्या भवति । कैः केव ? पुष्पैर्मिश्रा सूत्रततिरिव यथा पुष्पैमिश्रा सूत्रपंक्तिर्देवैरपि निर्गन्धांपि शिरसि धार्यते एवं भूपस्याऽपि बुद्धिर्वि१ मंत्रीपुरोहितसेनापतीनाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy