SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ मंत्रिसमुद्देशः। १०७. लासासक्तस्य नष्टापि सती प्रश्नात् प्रकटा भवतीति । तथा च वल्लभो देवः उत्तमानां प्रसंगेन लघवो यान्ति गौरवम् । पुष्पमालाप्रसंगेन सूत्रं शिरसि धार्यते ॥१॥ अथाग्रेसरसूत्रेणामुमेवार्थ दृढीकुर्वन्नाहमहद्भिः पुरुषैः प्रतिष्ठतोऽश्मापि भवति देवः किं पुनर्मनुष्यः ॥३॥ टोका-ये महापुरुषा उत्तमपुरुषा भवन्ति तैः प्रतिष्ठितोऽश्मापि पाषाणोऽपि देवो भवति किं पुनर्मनुष्यः । तस्माद्राज्ञा महापुरुषाः प्रष्टव्यास्तेषां वाक्यं कर्तव्यमिति । तथा च हारीत: पाषाणोऽपि च विबुधः स्थापितो यैः प्रजायते। उत्तमैः पुरुषैस्तैस्तु किन्न स्यान्मानुषोऽपरः ॥१॥ अथ तमेवार्थ दृढीकुर्वन्नाहतथा चानुश्रूयते विष्णुगुप्तानुग्रहादनधिकृतोऽपि किल चन्द्रगुप्तः साम्राज्यपदमवापेति ॥ ४ ॥ टीका-विष्णुगुप्तश्चाणिक्यस्तस्यानुग्रहात् प्रसादान्मतिमतोनधिकृतोऽपि अनधिकार्यपि मौरिककुलोत्पन्नोऽपि नन्दराजो साम्राज्यपदमवाप । तथा च शुक्र: महामात्यं वरो राजा निर्विकल्पं करोति यः । एकशोऽपि महीं लेभे हीनोऽपि वृहलो यथा ॥१॥ अथ राज्ञा यादृक्षोऽमात्यः कर्तव्यस्तस्य लक्षणमाह १ देवः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy