SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १०८ नीतिवाक्यामृते ब्राह्मणक्षत्रियविशामेकतम स्वदेशजमाचाराभिजनविशुद्धमव्यसनिनमव्यभिचारिणमधीताखिलव्यवहारतंत्रमस्त्रज्ञमशेषोपाधिविशुद्धं च मंत्रिणं कुर्वीत ॥५॥ टीका-एवं विधो ज्ञातामात्यमाहात्म्येन राज्ञा मंत्री कर्तव्यः तत्र तावदब्राह्मणक्षत्रियविशामेकतमं प्रधानभूतं । किंविशिष्टं तं ? स्वदेशजं स्वजनपदे जातं । आचाराभिजनविशुद्धं आचार आचरणमनुष्ठानं, अभिजनशब्देन 'कुलीनता कथ्यते ताभ्यां शुद्धं निष्कलंक, यस्य नाकृत्यप्रवर्तनं तथा चाभिजनत्वं मातृपितृपक्षविशुद्धिर्यस्य । तथा चाव्यसनिनं द्यूतस्त्रीमांसासक्तिवर्जितं । तथा चाव्यभिचारिणं कदाचिदेव येन न व्यभिचारो द्रोहः कृतः । तथाधीताखिलव्यवहारतंत्रं अधीतान्यखिलानि समस्तानि मनुयाज्ञवल्क्यादिप्रोक्तव्यवहाराणां तंत्राणि रहस्यानि येन तं । तथास्त्रज्ञमस्त्रविद्याकुशलं। तथा चाशेषोपाधिविशुद्धं, उपाधिशब्देन शत्रुचेष्टिता वारं वेति, एतैर्विशुद्धमष्टभिः पदार्थैः मंत्रिणं कुर्वीत । अथ पक्षपातस्य स्वरूपमाहसमस्तपक्षपातेषु स्वदेशपक्षपातो महान् ॥ ६॥ टीका-राज्ञो यः प्रोक्तोऽष्टगुणो मंत्री तेषां मध्यात् स्वदेशपक्षपातो महानुत्तमः सर्वेषां पक्षपातानां सकाशात् । उक्तं च यतो हारीतः स्वदेशजममात्यं यः कुरुते पृथिवीपतिः। आपत्कालेन सम्प्राप्ते न स तेन विमुच्यते ॥१॥ अथ दुराचारस्वरूपमाहविषनिषेक इव दुराचारः सर्वान् गुणान् दूषयति ॥ ७॥ टीका-यो मंत्री दुराचारः कुत्सितानुष्ठानो सर्वानन्यान् षङ्गणान् विद्यमानानपि दूषयति नाशयतीयर्थः । क इव ? विषनिषेक इव विष १ गुणानां। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy