________________
मंत्रिसमुद्देशः।
भक्षण इव । यथा विषेण भक्षितेन सर्वे शरीरजा गुणा नाशं यान्ति तद्वद्देशपक्षपातादिकाः सर्वे गुणा नश्यन्ति तस्मादुराचारो मंत्री न कर्तव्यः । तथा चात्रिः
दुराचारममात्यं यः कुरुते पृथिवीपतिः।
भूपाहस्तिस्य मंत्रेण गुणान् सर्वान् प्रणाशयत् ॥१॥ अथाकुलीनस्य स्वरूपमाहदुष्परिजनो मोहेन कुतोऽप्यपकृत्य न जुगुप्सते ॥८॥ टीका-दुष्परिजनशब्देनाकुलीनः कथ्यते, दुष्परिजनो मंत्री, कुतः कस्मात् जुगुप्सते लजां करोति। किं कृत्वा ? अपकृत्य द्रोहं कृत्वा, कस्य राज्ञोऽपि तु न लज्जते । यतः कुलीनस्य लज्जा भवति नाकुलीनस्य । तथा च यमः--
अकुलीनस्य नो लज्जा स्वामिद्रोहे कृते सति ।
मंत्रिणं कुलहीनस्य तस्माद्विद्वान्न ? कारयेत् ॥१॥ अथ सव्यसनस्य स्वरूपमाहसव्यसनसचिवो राजारूढव्यालगज इव नासुलभोऽपायः॥९॥ टीका—यो राजा सव्यसनसचिवो द्यूतस्त्रीपानव्यसनाभिभूतेन मंत्रिणा सह वर्तते, तस्य किं स्यात् ? नासुलभोऽपि तु सुलभः शीघ्रं स्यात् कोसौ ? अपायो विनाशः क इव ? आरूढव्यालगज इव योऽपि व्यालो दुष्टगजे आरोहणं करोति सोऽपि शीघ्रं नश्यतीति। तथा च नारदः
द्यूतं यो यमदूताभं हालां हालाहलोपमा। पश्यना...कारोपमानुदारान् राजाहः स्यात्स मंत्रयित् ॥१॥? अथ व्यभिचारिणो मंत्रिणः स्वरूपमाह - किं तेन केनापि यो विपदि नोपतिष्ठते ॥ १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org