SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते टीका-किं तेन केनापि मंत्रिणान्येनापि सामान्येन यः स्वामिनो - नोपतिष्ठते नागच्छति व्यभिचरतीत्यर्थः । कस्यां ? आपदि । तथा च शुक्रःकिं तेन मंत्रिणा योऽत्र व्यसने समुपस्थिते । व्यभिचारं करोत्येव गुणैः सर्वैर्युतोऽपि वा ॥ १ ॥ अथ तमेवार्थे समर्थयन्नाह - ११० भोज्येsसम्मतोऽपि हि सुलभो लोकः ॥। ११ ॥ टीका भोज्ये भोजनकाले ऽसम्मतोऽपि यः समागच्छति स सुलभः सुखेन लभ्यते प्रभूत इत्यर्थः । असंमतोऽप्यपूर्वोऽपि यो व्यसने साहाय्यं करोति स मंत्री सामान्योऽपि । हिशब्दो यस्मादर्थे स्फुटार्थः । तथा च वल्लभो देवः - समृद्धिकाले संप्राप्ते परोऽपि स्वजनायते । अकुलीनोऽपि चामात्यो दुर्लभः स महीभृताम् ॥ १ ॥ अथाधीताखिलव्यवहारस्य शुभकस्य मंत्रिणो दूषणमाहकिं तस्य भक्त्या यो न वेत्ति स्वामिनो हितोपायमहितप्रतीकारं वा ॥ १२ ॥ टीका – यो न वेत्ति न चिन्तयति । किं ? हितोपायं येन राज्ञो वृद्धिर्भवति । तथाऽहितप्रतीकारं शत्रुनाशं । तथा च गुरुः--- किं तस्य व्यवहारार्थैर्विज्ञातैः शुभकेरपि । यो न चिन्तयते राज्ञो धनोपायं रिपुक्षयं ॥ १ ॥ अथास्त्रज्ञस्य मंत्रिणो दोषमाह किं तेन सहायेनास्त्रज्ञेन मंत्रिणा यस्यात्मरक्षणेऽप्यस्त्रं न भवति ।। १३ ।। टीका - अत्राचार्येणास्त्रज्ञो मंत्री सहायः प्रोक्तः किं तेन सहायेनास्त्रज्ञेन मंत्रिणा खड्गचापादिविद्यान्वितेन य आत्मनो रक्षणं न करोति स शस्त्रज्ञो ऽप्यशस्त्रज्ञः । तथा च शुक्रः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy