________________
मंत्रिसमुद्देशः।
१११
भार्गवोत्थां च यो वेदशास्त्रविद्यांकुशैरपि।
स मंत्री पूजितो राज्ञा योऽन्यः शस्त्रात्मरक्षकः ॥१॥ अथोपधास्वरूपमाहधर्मार्थकामभयेषु व्याजेन परचित्तपरीक्षणमुपधा ॥ १४ ॥
टीका-या ( उपधा ) सा किंविशिष्टा ? परचित्तपरीक्षणकारी परशत्रुस्तस्य ज्ञायते चित्तं यथा, केन कृत्वा ? व्याजेन कपटेन । कैः, गुप्तचरैः । केषु पदार्थेषु ? धर्मार्थकामभयेषु । पश्चात्परीक्ष्य सन्धिर्विग्रहो वा स्वामिनो मंत्रिणा कारापनीयः। तत्र धर्मवेत्ता गुप्तचरः प्रेष्यस्तत्पुरोधसा सह मित्रत्वे नियोक्तव्यः, स तद्द्वारेण धर्मबुद्धिं यथा वेत्ति कार्य किं वाकृत्यमधर्मः त्वया ज्ञात्वा मम वाच्यः । ततश्च यदि कृत्यं धर्मों भवति स ततः स्वामिविग्रहे तेन सह नियोज्य: अकृत्यमधर्मो भवति तत्संधेयः यतो धर्मस्ततो जयः इति च ज्ञात्वा । अथवार्थोपधा बहुभांडं नियोज्यः प्रेष्यः स गत्वा कोशपेन सह मैत्रीभावेन नियोक्तव्यः तद्द्वारेण यथा कोशशुद्धिं वेत्ति यस्तथा वाच्यः। स कंचुकिना सह मैत्री कृत्वा कामशुद्धि वेत्ति द्यूतस्त्रीव्यसनेन जितः तद्योद्धव्यः, अथवा सन्धेयः । भयोपधा यथा तत्र यः शूरः स प्रहेतव्यः स च सेनापतिना सह मैत्री विधाय सभयं निर्भयं वेत्ति तद्यदि सभयस्तद्योद्धव्योऽथवा सन्धेयः । एताश्चतस्र उपधा इति । तथा च शुक्रः
ज्ञात्वा चयः कथितोऽरिगम्यो
धर्मार्थहीनो विषयी सुभीरुः पुरोहितार्थाधिपतेः सकाशात्
स्त्रीरक्षकासैन्यपतेः स कार्यः ॥१॥ अथाकुलीनेषु मंत्रिषु यद्भवति तदाहअकुलीनेषु नास्त्यपवदाद्भयम् ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org